हिमाचलप्रदेशराष्ट्रीयविधिविश्वविद्यालयेन ११ अक्टूबर-मासे तृतीय: दीक्षान्तसमारोह: आयोजयिष्यते
शिमला, ०४ सेप्टेम्बरमासः (हि.स.)। हिमाचलप्रदेशराष्ट्रीयविधिविश्वविद्यालयस्य शिमलायाः तृतीयं दीक्षान्तसमारोहः अग्रिमे ११ अक्टूबर-दिनाङ्के आयोजयिष्यते। समारोहस्य अवसरे अध्ययनकार्यक्रमं सफलतया पूर्णवत्सु विद्यार्थिषु उपाधयः प्रदास्यन्ते तथा उत्कृष्टशै
हिमाचलप्रदेशराष्ट्रीयविधिविश्वविद्यालयेन ११ अक्टूबर-मासे तृतीय: दीक्षान्तसमारोह: आयोजयिष्यते


शिमला, ०४ सेप्टेम्बरमासः (हि.स.)। हिमाचलप्रदेशराष्ट्रीयविधिविश्वविद्यालयस्य शिमलायाः तृतीयं दीक्षान्तसमारोहः अग्रिमे ११ अक्टूबर-दिनाङ्के आयोजयिष्यते। समारोहस्य अवसरे अध्ययनकार्यक्रमं सफलतया पूर्णवत्सु विद्यार्थिषु उपाधयः प्रदास्यन्ते तथा उत्कृष्टशैक्षणि-कोपलब्धीनां कृते ते सम्मानिताः भविष्यन्ति।

विश्वविद्यालयस्य अस्मिन् महत्त्वपूर्णे शैक्षणिककार्यक्रमे पञ्चवर्षीयस्य एकी-कृतविधिपाठ्यक्रमस्य अन्तर्गतं कला-विधिस्नातकस्य व्यवसायप्रशासन-विधिस्नातकस्य च २०२०-२५ तथा २०२१-२६ वर्षयोः विद्यार्थिभ्यः उपाधयः प्रदास्यन्ते। तदतिरिक्तं एकवर्षीय-विधिस्नातकोत्तरपाठ्यक्रमस्य २०२४-२५ तथा २०२५-२६ वर्षयोः विद्यार्थिनः, विधिविषये विद्यावाचस्पत्युपाधिं प्राप्तवन्तः शोधार्थिनः च दीक्षान्त-समारोहस्य भागिनः भविष्यन्ति।

विश्वविद्यालयस्य कुलपतिः प्रोफेसर (डा.) प्रीतिसक्सेना अवदत् यत् समारोहस्य सज्जतायाः अन्तर्गतं विश्वविद्यालय-प्रशासनेन विविधव्यवस्थानां निरीक्षणाय शिक्षकसदस्यैः, अधिकारिभिः कर्मचारिभिश्च युक्ताः अनेकाः समितयः गठिताः सन्ति। एताः समितयः समारोहस्थलस्य व्यवस्था, विद्यार्थिनां उपस्थितिः, अतिथीनां स्वागतं तथा अन्याः आवश्यकव्यवस्थाः सुनिश्चितं कर्तुं कार्यरताः सन्ति।

दीक्षान्तसमारोहे उपाधिप्राप्तकर्तृभिः विद्यार्थिभिः सह तेषां मातापितरौ अभि-भावकाश्च, न्यायपालिकायाः सदस्याः, विधिक्षेत्रसम्बद्धाः विशेषज्ञाः, शिक्षाविदः, विशिष्टातिथयः, पूर्वविद्यार्थिनः तथा विभिन्नसंस्थानानां प्रतिनिधयः च सम्मिलिताः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan