Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०४ सेप्टेम्बरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सी.पी. राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओम् बिरला अन्ये च शुक्रवासरे जन्माष्टम्याः पावने अवसरे देशवासिभ्यः शुभकामनाः प्रदत्तवन्तः।
राष्ट्रपतिः अवदत्— “जन्माष्टम्याः शुभावसरे देशे विदेशे च निवसद्भ्यः सर्वेभ्यः भारतीयेभ्यः अहं हार्दिकी-शुभकामनाश्च प्रेषयामि। भगवत: श्रीकृष्णस्य जीवनलीला तस्य सन्देशाश्च भारतीयसंस्कृतेः दर्शनस्य च संजीवनीस्वरूपाः सन्ति। तेन सत्यस्य, धर्मस्य, न्यायस्य, करुणायाः निष्कामकर्मणश्च मार्गः प्रदर्शितः। आगच्छन्तु, अस्मिन् शुभावसरे वयं सर्वे भगवत: श्रीकृष्णस्य आदर्शान् स्वीकर्तुं समावेशिनः विकसितभारतस्य च निर्माणाय निरन्तरं कार्यं कर्तुं सङ्कल्पं कुर्मः।”
उपराष्ट्रपतिः अवदत् यत् भगवत: श्रीकृष्णस्य जीवनं सन्देशश्च मानवतां सत्यस्य, धर्मस्य, कर्तव्यस्य सदाचारस्य च मार्गे गन्तुं प्रेरयति। अस्मिन् पावने अवसरे आगच्छन्तु, भगवत: श्रीकृष्णस्य शाश्वतीः शिक्षाः स्वजीवने आत्मसात्कर्तुं सङ्कल्पं कुर्मः तथा च समाजे एकतायाः, शान्तेः, सद्भावस्य च सुदृढीकरणे स्वयोगदानं दद्मः।
प्रधानमन्त्री अवदत् यत् भगवत: श्रीकृष्णस्य दिव्यसन्देशेषु निःस्वार्थकर्मणः अद्भुता प्रेरणा निहिता अस्ति, या मानवतायाः निरन्तरं मार्गदर्शनं कृतवती। तस्य भक्त्यै उपासनायै च समर्पितः अयं पावनः अवसरः सर्वेषां जीवने सकारात्मकशक्तेः ऊर्जायाश्च सञ्चारं करोतु, इति कामयामहे। जय श्रीकृष्ण!
ओम् बिरला अवदत्— “श्रीकृष्णस्य, गोविन्दस्य, हरे मुरारेः, हे नाथ नारायणस्य, वासुदेवस्य च जन्मोत्सवे प्रार्थना अस्ति यत् प्रत्येकस्मिन् गृहे सुखशान्त्योः, प्रत्येकस्मिन् मनसि विश्वासस्य, प्रत्येक-स्मिन् जीवने नवशक्तेः उत्साहस्य च सञ्चारः भवतु। जन्माष्टम्यां च इयम् अपि कामना अस्ति यत् सर्वेषु श्रद्धालुषु प्रभोः श्रीकृष्णस्य कृपा निरन्तरं वर्तताम्। राष्ट्रं समाजश्च सत्यस्य, न्यायस्य, मानवतायाः च मार्गे निरन्तरम् अग्रे वर्धताम्।”
रक्षामन्त्री राजनाथसिंहः अवदत् यत् श्रीमद्भगवद्गीतायां तस्य अमरः सन्देशः कर्मणि निष्ठायाः, विवेकस्य, धैर्यस्य लोककल्याणस्य च प्रेरणां ददाति। भगवान् श्रीकृष्णस्य कृपया देशे सुखं, शान्तिः, समृद्धिः प्रसन्नता च निरन्तरं वर्तताम् तथा च प्रत्येकं परिवारस्य जीवने आनन्दस्य, आशायाः, नवशक्तेश्च सञ्चारः भवतु।
केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः अवदत् यत् धर्मस्य, नीतेः लोककल्याणस्य च प्रतीकः योगेश्वरः भगवान् श्रीकृष्णः सर्वेषु स्वकृपां स्थापयतु। लोकसभायां विपक्षनेता राहुलगान्धी अवदत् यत् आशास्महे यत् जत्त पर्व भवतां जीवनं हर्षेण उल्लासेन च परिपूरयतु। काङ्ग्रेसदलस्य राष्ट्रियाध्यक्षः मल्लिका-र्जुनखरगे अवदत् यत् भवतां सर्वेषां जीवने सुखं, शान्तिः, समृद्धिः प्रसन्नता च निरन्तरं वर्तताम्— इति मम मङ्गलकामना।
Hindusthan Samachar / Divya Ranjan