Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०४ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी, रक्षामन्त्री राजनाथसिंहः अन्ये च देशस्य प्रथमस्य चित्रणोपग्रहस्य जियो-ऑर्बिट्-कक्षायां सफलतापूर्वकं प्रक्षेपणाय भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनस्य दलाय वर्धापनानि प्रदत्तवन्तः। उल्लेखनीयमस्ति यत् अद्य प्रातः इसरो-सङ्घटनेन आन्ध्रप्रदेशस्य श्रीहरिकोटायां पृथ्वी-अवलोकन-उपग्रहस्य ईओएस-०५ इत्यस्य सफलतापूर्वकं प्रक्षेपणं कृतम्।
प्रधानमन्त्रिणा नरेन्द्रमोदिना ‘एक्स’-माध्यमे लिखितम्— “इसरो-सङ्गठनस्य पुनरेकं साफल्यं, अस्माकं देशस्य च कृते गौरवस्य क्षणः। भारतस्य प्रथमस्य चित्रणोपग्रहस्य ईओएस-०५ इत्यस्य भू-समकालिक-कक्षायां प्रक्षेपणं कुर्वतः जीएसएलवी-एफ्१७ इत्यस्य सफलं प्रक्षेपणं भारतस्य अन्तरिक्षक्षेत्रस्य उत्कृष्टतां, नवोन्मेषं वर्धमानक्षमताश्च प्रदर्शयति। इसरो-सङ्गठनस्य भारतीय-उद्योगस्य च मध्ये वर्धमाना सहभागिता अस्माकम् अन्तरिक्षकार्यक्रमाय नूतनं सामर्थ्यं विस्तारं च प्रददाति, तथा सम्पूर्णे अन्तरिक्ष-पारिस्थितिकीतन्त्रे भारतस्य क्षमताः वर्धयति।”
रक्षामन्त्री राजनाथसिंहेन उक्तं यत् भू-समकालिक-कक्षायां स्थापितः भारतस्य प्रथमः चित्रणोपग्रहः ईओएस-०५ अस्माकं पृथ्वी-अवलोकन-क्षमतां सुदृढां करोति तथा अन्तरिक्षकार्यक्रमस्य वर्धमानां आधुनिकतां च प्रदर्शयति। इसरो-सङ्गठनस्य भारतीय-उद्योगस्य च मध्ये वर्धमाना सहभागिता बृहद्-स्तरे नवोन्मेषं प्रोत्साहयति, स्वदेशीयक्षमताः सुदृढाः करोति तथा अन्तरिक्षसम्बद्धानां महत्त्वाकाङ्क्षाणां कृते नूतनान् मार्गान् उद्घाटयति।
केन्द्रीयविज्ञान-प्रौद्योगिकीमन्त्रिणा डॉ. जितेन्द्रसिंहेन उक्तं यत् अन्तरिक्षक्षेत्रे भारतस्य कृते पुनरेकं महत् साफल्यम्। ईओएस्-०५ इत्ययं अत्याधुनिकः पृथ्वी-अवलोकन-उपग्रहः अस्ति तथा भू-समकालिक-कक्षायाः भारतस्य प्रथमः चित्रणोपग्रहः अस्ति। अयं दृश्य, अवरक्त, बहुस्पेक्ट्रमी तथा अतिस्पेक्ट्रमी पट्टिकासु उन्नतचित्रणस्य सुविधा प्रददाति। प्रधानमन्त्रीमोदिनः दूरदर्शिनः नेतृत्वे भारतस्य अन्तरिक्षक्षमताः निरन्तरं नूतनानि शिखराणि स्पृशन्ति तथा वैश्विक-अन्तरिक्षशक्तिरूपेण देशस्य स्थितिः सुदृढा भवति।
केन्द्रीयवाणिज्य-उद्योगमन्त्रिणा पीयूष-गोयलेन उक्तं यत् एतत् साफल्यं भारतस्य अन्तरिक्षवैज्ञानिकानां अभियन्तॄणां च प्रतिभायाः, ज्ञात्वा निरन्तरवर्धमान-क्षमतानां च प्रमाणम् अस्ति। इसरो-सङ्गठनस्य भारतीय-उद्योगस्य च मध्ये वर्धमानः सहयोगः अन्तरिक्षकार्यक्रमाय नूतनं सामर्थ्यं विस्तारं च प्रददाति, येन सम्पूर्णे अन्तरिक्षक्षेत्रे भारतस्य क्षमताः अधिकं सुदृढाः भवन्ति।
केन्द्रीयपेट्रोलियम-प्राकृतिकवायुमन्त्री हरदीपसिंहपुरी इत्यनेन उक्तं यत् एषा उपलब्धिः अन्तरिक्षविज्ञाने प्रौद्योगिक्यां च विश्वस्तरीयक्षमतानां विकासस्य दिशि भारतस्य निरन्तरप्रगतिं प्रदर्शयति। एषा उपलब्धिः तं उद्देश्यम् आकाङ्क्षां च अपि प्रदर्शयति, यस्याः अन्तर्गतं प्रधानमन्त्री-मोदिनः नेतृत्वे भारतस्य अन्तरिक्ष-कार्यक्रमः निरन्तरं अग्रे वर्धते।
केन्द्रीयसञ्चारमन्त्री ज्योतिरादित्य-सिन्धिया इत्यनेन उक्तं यत् ईओएस्-०५ इत्येनं वहतः जीएसएलवी-एफ्१७ इत्यस्य सफलं प्रक्षेपणं भारतस्य वर्धमानासु ‘पृथ्वी-अवलोकन’-क्षमतासु पुनरेकं महत्त्वपूर्णं साफल्यम् अस्ति।
काङ्ग्रेसदलस्य राष्ट्रियाध्यक्षेण मल्लिकार्जुनखरगे इत्यनेन उक्तं यत् भारतस्य प्रथमः चित्रणोपग्रहः ईओएस-०५ भू-समकालिक-कक्षायाः भारतस्य पृथ्वीं द्रष्टुं तस्याः स्वरूपं च अवगन्तुं विद्यमानां क्षमतां अधिकं सुदृढां करिष्यति, यां देशः वर्षेभ्यः विकसितवान् अस्ति। देशस्य वैज्ञानिकेषु, अन्तरिक्ष-अभियन्तृषु अनु-सन्धानकर्तृषु च अतीव गौरवम् अस्ति, येषां समर्पणं क्षमता च भारतस्य अन्तरिक्षकार्यक्रमं निरन्तरं नूतनानि शिखराणि प्रति नयतः।
उल्लेखनीयमस्ति यत् देशस्य प्रथमस्य चित्रणोपग्रहस्य भू-कक्षायां सफलतापूर्वकं प्रक्षेपणं कृत्वा पुनरेकवारं इतिहासः रचितः। जीएसएलवी-एफ्१७ प्रक्षेपणयान-रॉकेट् उन्नति-ईओएस्-०५ जियो-इमेजिङ्ग-उपग्रहं ३६,००० किलोमीटर-परिमितम् उन्नतं भू-समकालिक-कक्षायां स्थापितवान्।
Hindusthan Samachar / Divya Ranjan