भारतस्य अन्तरिक्षक्षेत्रे पुनरपि महान् प्रगति:, ईओएस्-०५ उपग्रहस्य सफलं प्रक्षेपणम्
श्रीहरिकोटा (आन्ध्रप्रदेशः), ०४ सेप्टेम्बरमासः (हि.स.)। भारतं अद्य अन्तरिक्षक्षेत्रे पुनरपि महत्त्वपूर्णां सफलतां प्राप्तवान्। भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनेन प्रातःकालात् पूर्वं श्रीहरिकोटास्थितात् प्रक्षेपणकेन्द्रात् जीएसएलवी-एफ१७ इति प्रक्षे
11a98374ebec8e0c7a54751d2161804d_1216176682.jpg


श्रीहरिकोटा (आन्ध्रप्रदेशः), ०४ सेप्टेम्बरमासः (हि.स.)। भारतं अद्य अन्तरिक्षक्षेत्रे पुनरपि महत्त्वपूर्णां सफलतां प्राप्तवान्। भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनेन प्रातःकालात् पूर्वं श्रीहरिकोटास्थितात् प्रक्षेपणकेन्द्रात् जीएसएलवी-एफ१७ इति प्रक्षेपणयानेन पृथ्वी-अवलोकन-उपग्रहस्य ईओएस्-०५ इत्यस्य सफलं प्रक्षेपणं कृतम्। इसरो-संस्थायाः अध्यक्षस्य वी. नारायणनस्य, अनेकेषां पूर्व-अध्यक्षानां च उपस्थितौ सम्पन्नं प्रक्षेपणं बहुभिः दृष्टिभिः ऐतिहासिकम् अस्ति।

इसरो-संस्थायाः अनुसारं प्रक्षेपणस्य प्रायः १८ निमेषानन्तरं भारतस्य प्रथमः अत्याधुनिकः प्रतिबिम्बग्रहः जियोसिं-क्रोनस-कक्षायां सफलतया स्थापितः। ईओएस्-०५ इत्यस्मात् वास्तविकसमये चित्राणि प्राप्तुं शक्यन्ते। एतेन कृषिक्षेत्रे, आपद्व्यवस्थापने च महती सहायता भविष्यति। इसरो-संस्थायाः प्रमुखः नारायणन् अवदत् यत् अनेन अभियानेन भारतस्य पृथ्वी-अवलोकन-क्षमता अधिकं सुदृढा भविष्यति।

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनेन उक्तं यत् जीएसएलवी-एफ१७ प्रक्षेपणयानेन कृतमिदं प्रक्षेपणं जीएसएलवी-यानस्य एकोनविंशतितमं प्रक्षेपणम् अस्ति। ०४ सेप्टेम्बरमासस्य मध्यरात्रेः प्रायः त्रिहोरानन्तरं रात्रौ ०२:५५ वादने सतीशधवन-अन्तरिक्षकेन्द्रात् प्रक्षेपितः अयं उपग्रहः भारतस्य प्रथमः अत्याधुनिकः भू-तुल्यकालिकः प्रतिबिम्बग्रहः अस्ति। ईओएस्-०५-अभियानस्य उद्देश्यम् उप-भू-तुल्यकालिक-स्थानान्तरण-कक्षायां स्थापितेन उपग्रहेण पृथिवीं परिक्रम्य महत्त्वपूर्णां सूचनां प्रदातुम् अस्ति।

प्रक्षेपणस्य दर्शनार्थं खगोलविज्ञाने रुचिं वहन्तः दर्शकाः बहुसंख्यया इसरो-संस्थायाः केन्द्रे उपस्थिताः आसन्। प्रक्षेपणस्य प्रायः २२ निमेषानन्तरं अभियान-निदेशकेन प्रक्षेपणं सफलमिति घोषितम्। ततः इसरो-प्रमुखः नारायणन् अभियानसम्बद्धाः कतिपयाः प्रमुखाः विषयाः प्रकाशितवान्। सः अवदत् यत् यदा पृथ्वी-अवलोकन-उपग्रहः ईओएस्-०५ कक्षायां कार्यान्वितः भविष्यति, तदा सः भारतस्य प्रथमः भू-कक्षातः समर्पितः प्रतिबिम्बग्रहः भविष्यति, यः अस्माकं देशाय महत्त्वपूर्णं सामरिकं दत्तांशं प्रदास्यति।

इसरो-प्रमुखः नारायणन् अवदत् यत् अद्यतनं प्रक्षेपणं श्रीहरिकोटातः इसरो-संस्थायाः १०७तमं प्रक्षेपणम् अस्ति। सः अवदत् यत् जीएसएलवी-एफ१७ इत्यस्य निरन्तरं सुधारं उन्नयनं च कृत्वा प्रक्षेपणयानम् अधुना वर्तमानस्वरूपेण कार्यं करोति। इसरो-प्रमुखेन उक्तं यत् औद्योगिकजगतः सहयोगस्य अतिरिक्तम् अस्य अभियानस्य सफलतायां इसरो-संस्थायाः वैज्ञानिकानां सामूहिककार्यस्य महत्त्वपूर्णं योगदानम् अस्ति। वैज्ञानिकानां परिवारेषु सम्मिलितानां सदस्याणामपि महत्त्वपूर्णा भूमिका आसीत्।

सः अवदत् यत् प्रधानमन्त्रिणः निर्देशानुसारम् इसरो षड्-अन्यप्रक्षेपणानां लक्ष्यं स्वीकृत्य अग्रे गच्छति। गगनयान-अभियानेऽपि सक्रियतया कार्यं प्रचलति। अन्तरिक्षक्षेत्रे नवोद्यमा-उद्यमानां विषये इसरो-प्रमुखः अवदत् यत् देशे तदर्थं वातावरणं सकारात्मकम् अस्ति।

नारायणन् अवदत् यत् जीएसएलवी-यानेन यावत् कृतानि प्रक्षेपणानि सन्ति, तेषु ईओएस्-०५ उपग्रहः सर्वाधिक-भारयुक्तः अस्ति। अस्य ऐतिहासिकस्य अभियानस्य सम्बद्धाः सर्वे वैज्ञानिकाः तथा अभियान-निदेशकः थॉमस् कुरियन् च प्रक्षेपणे प्राप्तायां सफलतायां समस्वरेण ‘जय हिन्द्’ इति उद्घोषं कृत्वा देशवासिभ्यः शुभकामनाः प्रदत्तवन्तः। इसरो-पदाधिकारी इम्तियाजः अवदत्— “यदा उच्चैः उड्डयनस्य साहसं कृतं भवति, तदा आकाशस्य विस्तारं मापितुं निरर्थकम्।” सः अवदत् यत् अस्मिन् सर्वाधिकभारयुक्ते जटिले च अभियाने सम्पूर्णेन दलेन एकतया कार्यं कृतम्। यत्र यत्र पदानि अदोलयन्, उत्साहश्च क्षीणः अभवत्, तत्र वरिष्ठाधिकारिभिः पूर्णं समर्थनं प्रदत्तम्।

ईओएस्-०५ किम् अस्ति?

ईओएस्-०५ एकः अत्याधुनिकः पृथ्वी-अवलोकन-उपग्रहः अस्ति। तस्य मुख्यं कार्यम् अन्तरिक्षात् पृथिव्याः प्रतिबिम्बग्रहणम् अस्ति। तस्य भारः प्रायः २३६७ किलोग्राम् अस्ति। ईओएस्-०५ विशेषतः जियोसिंक्रोनस-कक्षायाः माध्यमेन पृथिव्याः प्रतिबिम्बग्रहणाय निर्मितः अस्ति। अस्यां कक्षायां प्राप्ते सति उपग्रहः पृथिव्याः विशालं क्षेत्रं पुनः पुनः द्रष्टुं शक्नोति। एनएसआईएल-संस्थया सामरिक-उपयोक्त्रे समर्पितस्य प्रक्षेपणरूपेण इदं अभियानं सम्पन्नम्। अस्य सह भारतस्य अन्यदेशानां च उपयोक्तॄणां १८ सहयात्री-उपग्रहाः अपि प्रेषिताः।

जीएसएलवी-एफ१७ किम् अस्ति?

जीएसएलवी-एफ१७ भारतस्य जियो-सिंक्रोनस-सैटेलाइट्-लॉञ्च्-व्हीकल् अर्थात् जीएसएलवी इत्यस्य एकोन-विंशतितमा उड्डयनम् अस्ति। अस्य दीर्घता प्रायः ५१.७ मीटर अस्ति तथा च प्रक्षेपणसमये भारः प्रायः ४२०.५ टन् अस्ति। श्रीहरिकोटास्थितात् सतीशधवन-अन्तरिक्षकेन्द्रस्य द्वितीय-प्रक्षेपणपटलात् अस्य प्रक्षेपणं कृतम्। प्रक्षेपणयानस्य उपरि चतुर-मीटर-व्यासयुक्ता ओगिव-संयुक्त-पेलोड्-फेयरिङ्ग इति स्थापितासीत्, यस्याः अन्तः ईओएस-०५ उपग्रहः स्थापितः आसीत्।

Hindusthan Samachar / Divya Ranjan