रातूरोडमध्ये भव्यायाः कान्हा घटभञ्जनप्रतियोगितायाः आयोजनं, सहस्रसंख्यायाम् उत्पन्नो जनसंमर्दः
रांची, 04 सितंबरमासः (हि.स.)।कान्हामटकाभञ्जनप्रतियोगितासमित्याः तत्वावधाने गुरुवासरे रात्रौ रातूमार्गे कान्हामटकाभञ्जनप्रतियोगितायाः आयोजनं कृतम्। समितेः अध्यक्षस्य उत्तमयादवस्य मुख्यसंरक्षकस्य मृत्युंजयसिंहस्य च नेतृत्वे कार्यक्रमः आयोजितः। कार्यक
प्रतियोगिता के दौरान मटका फोड़ते प्रतिभागी


रांची, 04 सितंबरमासः (हि.स.)।कान्हामटकाभञ्जनप्रतियोगितासमित्याः तत्वावधाने गुरुवासरे रात्रौ रातूमार्गे कान्हामटकाभञ्जनप्रतियोगितायाः आयोजनं कृतम्। समितेः अध्यक्षस्य उत्तमयादवस्य मुख्यसंरक्षकस्य मृत्युंजयसिंहस्य च नेतृत्वे कार्यक्रमः आयोजितः। कार्यक्रमं प्रति जनानां मध्ये अत्यधिकः उत्साहः दृश्यते स्म।

मटकाभञ्जनप्रतियोगितायां विभिन्नदलानि पूर्णोत्साहेन ऊर्जया च भागं गृहीतवन्ति। प्रतियोगितायां प्रमुखतया शिवशक्तिजनकल्याणदलम्, माण्डरम्, शिवशक्तिक्लब् मालतीमाण्डरम्, श्रीरामसेना बिरसामैदानम्, श्रीरामसेवासमितिः माण्डरम्, बजरङ्गदलम् मालतीमाण्डरम् तथा नेशनल् इन्स्टिट्यूट् ऑफ् योगा इत्येतासां दलानां सहभागिता आसीत्।

अस्य आयोजनस्य विशेषता आसीत् यत् महिलादलानि अपि उत्साहपूर्वकं भागं गृहीतवत्यः। राधाराणी माण्डरस्य नेशनल् इन्स्टिट्यूट् ऑफ् योगा इत्यस्य च महिलादलाभ्यां मटकाभञ्जनप्रतियोगितायां भागं गृहीत्वा दर्शकानाम् उत्साहः वर्धितः।

कार्यक्रमे उत्तरप्रदेशस्य कानपुरनगरात् आगतस्य स्काई इवेण्ट् ग्रुप् इत्यस्य झाँकीदलस्य मनोहारिभिः भव्यप्रस्तुतिभिः दर्शकानां मनांसि विजितानि। राकेशसोनी कानपुरस्य नेतृत्वे प्रस्तुतासु झाँकीषु श्रीगणेशस्य, राधाकृष्णयोः, सुदाम्नः, विष्ण्ववतारस्य, भगवत्याः दुर्गायाः कालीरूपस्य महिषासुरमर्दिनीरूपस्य च, शिवपार्वत्योः महाकालताण्डवस्य तथा नरसिंहावतारस्य च धार्मिकाः पौराणिकाश्च झाँक्यः प्रमुखाकर्षणरूपेण आसन्।

झाँकीनां भव्यप्रस्तुत्या सम्पूर्णे कार्यक्रमे आध्यात्मिकं भक्तिमयं च वातावरणं निर्मितम्। भगवान् श्रीकृष्णस्य राधाराण्याश्च स्वरूपं धृत्वा सम्मिलिताः बालकाः अपि स्वमनोहारिप्रस्तुत्या उपस्थितानां जनानां मनांसि आकृष्टवन्तः।

आयोजनस्थले श्रीकृष्णजन्माष्टम्याः भक्तेः संस्कृतेः परम्परायाश्च अद्भुतः सङ्गमः दृश्यते स्म। सहस्राधिकजनानां उपस्थित्या कलाकाराणां च मनोहारिप्रस्तुतिभिः कार्यक्रमः स्मरणीयः अभवत्।

कान्हामटकाभञ्जनप्रतियोगितासमितिः कार्यक्रमस्य सफलतायै सहयोगं प्रदातृभ्यः सर्वेभ्यः दलैः, कलाकारैः, श्रद्धालुभ्यः, दर्शकेभ्यः आयोजनसम्बद्धेभ्यश्च सर्वेभ्यः जनेभ्यः कृतज्ञतां व्यक्तवती।

विजेतृषु प्रथमस्थानं बजरङ्गदलस्य मालतीमाण्डरदलस्य, द्वितीयस्थानं नेशनल् इन्स्टिट्यूट् ऑफ् योगा दलस्य तथा तृतीयस्थानं शिवशक्तिक्लब् मालतीमाण्डरस्य दलस्य प्राप्तम्। महिलादलानां विजेतृषु राधाराणी माण्डरस्य दलं सम्मिलितम् आसीत्। प्रथमपुरस्काररूपेण एकत्रिंशत्सहस्ररूप्यकाणि, द्वितीयपुरस्काररूपेण एकविंशतिसहस्ररूप्यकाणि तथा तृतीयपुरस्काररूपेण एकादशसहस्ररूप्यकाणि ट्रॉफीसहितानि विजेतृभ्यः प्रदत्तानि। तथैव महिलादलस्य विजेतृभ्यः एकादशसहस्ररूप्यकाणि ट्रॉफीसहितानि प्रदत्तानि।

कार्यक्रमस्य सफलतायै प्रमुखतया महामन्त्री प्रेमप्रतीकः, बमबारी, विपुलमिश्रः, दिलीपगुप्तः, निशान्तचौहानः, रोहितयादवः, शुभमः, निखिलगुप्तः तथा प्रकाशसिन्हा च सम्मिलिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani