जन्माष्टम्यां मुख्यमंत्री मोहन माझी, नवीन पटनायकः केंद्रीय मंत्री जुएल ओरामश्चाददुः शुभकामनाम्
भुवनेश्वरम्, 04 सितंबरमासः (हि.स.)।पवित्रे जन्माष्टमीपर्वणि ओडिशाप्रदेशस्य मुख्यमन्त्री मोहनचरणमाझी, केन्द्रीयजनजातीयकार्यमन्त्री जुएलोराम तथा विधानसभायां प्रतिपक्षनेता नवीनपटनायकश्च प्रदेशवासिभ्यः देशवासिभ्यश्च हार्दिकशुभकामनाः अयच्छन्। त्रयः अपि
उड़ीसा के मुख्यमंत्री मोहन चरण माझी


भुवनेश्वरम्, 04 सितंबरमासः (हि.स.)।पवित्रे जन्माष्टमीपर्वणि ओडिशाप्रदेशस्य मुख्यमन्त्री मोहनचरणमाझी, केन्द्रीयजनजातीयकार्यमन्त्री जुएलोराम तथा विधानसभायां प्रतिपक्षनेता नवीनपटनायकश्च प्रदेशवासिभ्यः देशवासिभ्यश्च हार्दिकशुभकामनाः अयच्छन्। त्रयः अपि नेतारः भगवान् श्रीकृष्णात् सर्वेषां जीवनस्य सुखसमृद्धिसौख्याय च प्रार्थनां कृतवन्तः।

मुख्यमन्त्री मोहनचरणमाझी स्वसन्देशे सर्वेभ्यः जन्माष्टम्याः शुभकामनाः प्रदाय अवदत् यत् भगवान् श्रीकृष्णस्य आशीर्वादेन प्रत्येकस्य जनस्य जीवनं सुखसमृद्धिभ्यां परिपूर्णं भवतु।

केन्द्रीयजनजातीयकार्यमन्त्री जुएलोराम अपि श्रीकृष्णजन्माष्टम्याः शुभकामनाः प्रदाय प्रार्थितवान् यत् भगवान् श्रीकृष्णस्य कृपा सर्वेषु निरन्तरं वर्तताम्। सः अवदत् यत् प्रत्येकं गृहं प्राङ्गणं च धनधान्यैः परिपूर्णं भवतु तथा सर्वेषां जीवने सुखं समृद्धिः सौख्यं आनन्दश्च निरन्तरं वर्तताम्। सः सर्वेषां मनोरथाः पूर्णाः भवन्तु इति कामनां कुर्वन् स्वसन्देशस्य समापनं ‘जय श्रीकृष्ण’ इत्युद्घोषेण कृतवान्।

तथैव विधानसभायां प्रतिपक्षनेता तथा बीजूजनतादलस्य अध्यक्षः नवीनपटनायकः अपि जन्माष्टम्याः हार्दिकशुभकामनाः अयच्छत्। सः कामनां कृतवान् यत् भगवान् श्रीकृष्णस्य अपारकृपया सर्वेषां जीवने सुखस्य समृद्धेश्च सञ्चारः भवतु।

---------------

Hindusthan Samachar / Dheeraj Maithani