मध्यप्रदेशस्य सीहोरे देशस्य बृहत्तमस्य ट्रान्सफॉर्मर-निर्माणसंयन्त्रस्य प्रथमस्य विद्युत्-परिवर्तित्रस्य उत्पादनस्य शुभारम्भः
– क्रॉम्पटन-एण्ड-ग्रीव्स-पावर-संस्थायाः अस्मिन् संयन्त्रे प्रतिदिनम् एकं विद्युत्-परिवर्तित्रं निर्मीयते, द्विसहस्रं जनानां रोजगारावसराः प्राप्स्यन्ते सीहोरः/भोपालम्, ४ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः गुरुवासरे सीहोरे
सीहोर में ट्रांसफॉर्मर निर्माण इकाई के पहले पावर ट्रांसफॉर्मर के रोलआउट का शुभारंभ करते हुए मुख्यमंत्री


सीहोर में ट्रांसफॉर्मर निर्माण इकाई के पहले पावर ट्रांसफॉर्मर के रोलआउट का शुभारंभ कार्यक्रम को संबोधित करते हुए मुख्यमंत्री


सीहोर में ट्रांसफॉर्मर निर्माण इकाई का अवलोकन करते हुए मुख्यमंत्री


सीहोर में ट्रांसफॉर्मर निर्माण इकाई के पहले पावर ट्रांसफॉर्मर के रोलआउट का शुभारंभ करते हुए मुख्यमंत्री


– क्रॉम्पटन-एण्ड-ग्रीव्स-पावर-संस्थायाः अस्मिन् संयन्त्रे प्रतिदिनम् एकं विद्युत्-परिवर्तित्रं निर्मीयते, द्विसहस्रं जनानां रोजगारावसराः प्राप्स्यन्ते

सीहोरः/भोपालम्, ४ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः गुरुवासरे सीहोरे बड़ियाखेड़ी-औद्योगिकक्षेत्रे देशस्य बृहत्तमस्य ट्रान्सफॉर्मर-निर्माणसंयन्त्रस्य सीजी पावर एण्ड् इण्डस्ट्रियल सॉल्यूशन्स लिमिटेड इत्यस्य प्रथमस्य विद्युत्-परिवर्तित्रस्य उत्पादनस्य शुभारम्भं कृतवान्। अस्मिन् संस्थाने प्रतिदिनं १२०० के.वी. पर्यन्तं क्षमतायुक्तं विद्युत्-परिवर्तित्रं निर्मास्यते तथा २००० जनानां रोजगारस्य अवसरान् प्राप्स्यन्ति।

अस्मिन् अवसरे मुख्यमन्त्री डॉ. यादवः उक्तवान् यत् येन वेगेन देशः विकासस्य दिशि अग्रे गच्छति, तेनैव वेगेन मध्यप्रदेशः अपि द्रुतगत्या प्रगतिं करोति। मध्यप्रदेशः अधुना निवेशकानां प्रथमरुचिरूपेण परिणमति तथा च महत्तमाः औद्योगिक-संस्थाः प्रदेशे स्थापिताः भवन्ति। सः उक्तवान् यत् प्रदेशे उद्योगानां स्थापनया विकासाय नूतना गतिः प्राप्यते तथा रोजगारस्य अवसराः निरन्तरं वर्धन्ते। नवीनोद्योगैः स्थानीयस्तरे युवभ्यः रोजगारः प्राप्यते, व्यापारस्य आर्थिकक्रिया-कलापानां च विस्तारः भवति।

सः उक्तवान् यत् औद्योगिकनिवेशस्य वर्धनेन प्रदेशस्य अर्थव्यवस्था सुदृढा भवति तथा च सर्वकाराय विकासस्य जनकल्याणस्य च कार्येभ्यः अधिकानि संसाधनानि उपलब्धानि भवन्ति। सर्वकारस्य प्रयत्नः अस्ति यत् प्रदेशे अधिकाधिकः निवेशः आगच्छेत् तथा तस्य लाभः उद्योगस्य, रोजगारस्य समग्र-विकासस्य च रूपेण प्रदेशवासिभ्यः प्राप्येत।

सः उक्तवान् यत् अद्य एतत् कथयितुं हर्षः भवति यत् अमेरिकादेशस्य सकल-गृहोत्पादस्य वृद्धिदरः प्रायः २ प्रतिशतं चीनदेशस्य च प्रायः ४ प्रतिशतं वर्तते, यदा तु भारतस्य आर्थिकवृद्धिदरः ७.८ प्रतिशतं वर्तते। सः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतं विकासस्य गतिं नूतनं शिखरं प्रति नीतवान् अस्ति। देशस्य तीव्रया आर्थिकप्रगतया सम्पूर्णस्य विश्वस्य ध्यानम् आकर्षितम् अस्ति तथा भारतं वैश्विकस्तरे शीघ्रं प्रगतिं कुर्वती अर्थव्यवस्थारूपेण स्वस्य सुदृढं परिचयं स्थापयति।

मुख्यमन्त्री उक्तवान् यत् उत्साहः, सामर्थ्यम्, नीतिः, कार्यसम्पादनम् उत्पादनं च मध्यप्रदेशस्य औद्योगिकपरिचयस्य अभिन्नाः अङ्गाः अभवन्। प्रदेशसर्वकारः उद्योगस्थापनं कुर्वद्भ्यः निवेशकेभ्यः सर्वसम्भवं सहयोगं प्रदातुं तत्परः अस्ति। सः उक्तवान् यत् राज्ये निवेशाय अनुकूलं वातावरणं निर्मितम् अस्ति, येन औद्योगिकविकासेन सह रोजगारस्य नवीनाः अवसराः अपि सृज्यन्ते।

सः उक्तवान् यत् सीहोरे देशस्य बृहत्तमस्य ट्रान्सफॉर्मर-निर्माणसंयन्त्रस्य शुभारम्भः ऐतिहासिकः अवसरः अस्ति। देशस्य ऊर्जाक्षेत्रस्य औद्योगिक-पारिस्थितिकी-तन्त्रस्य च रूपान्तरे अस्य उद्योगस्य महत्त्वपूर्णा भूमिका भविष्यति। अधुना “डाईतः ट्रान्सफॉर्मरपर्यन्तं निर्माणं सीहोरे” भवितुम् आरब्धम् अस्ति, यत् जनपदस्य वर्धमानस्य औद्योगिक-विकासस्य प्रमाणम् अस्ति।

सः सीजी पावर-संस्थायाः प्रशंसां कुर्वन् उक्तवान् यत् संस्थया नवतिदशकेषु उद्योगजगति स्वकीयं विशिष्टं स्थानं निर्मितम् अस्ति। सः उक्तवान् यत् गतवर्षस्य अगस्तमासे संस्थायाः भूमिपूजनस्य अनन्तरं केवलं त्रयोदशमासेषु एव ट्रान्सफॉर्मर इत्यस्य निर्माणस्य प्रारम्भः महत्त्वपूर्णा उपलब्धिः अस्ति। संस्थया प्रतिदिनम् एकस्य विद्युत्-परिवर्तितस्य निर्माणस्य क्षमता विकसितेति कारणेन अपि सः संस्थायाः प्रशंसां कृतवान्। तेन उक्तं यत् एतेन सीहोरसहितस्य सम्पूर्णस्य प्रदेशस्य औद्योगिकविकासे रोजगारक्षेत्रे च नूतना गतिः प्राप्स्यते। कार्यक्रमे संस्थायाः अध्यक्षः वेलियान् सुब्बैयाः तथा मुख्यकार्यकारी अधिकारी प्रबन्धनिदेशकश्च अमरकौलः सीजी पावर-संस्थायाः विषये विस्तरेण सूचनां दत्तवन्तौ।

“सीहोरः निश्चितः अस्ति, अत्र निवेशः सुरक्षितः अस्ति, प्रतिफलम् अपि सुरक्षितम् अस्ति”

मुख्यमन्त्री डॉ. यादवः उक्तवान्— “सीहोरः सुनिश्चितः अस्ति, अत्र निवेशः सुरक्षितः अस्ति तथा प्रतिफलम् अपि सुरक्षितम् अस्ति।” सीहोरे निवेशाय अनुकूलं वातावरणं, उत्तमा सम्पर्कव्यवस्था पर्याप्ताः सम्भावनाश्च सन्ति। सर्वकारस्य उद्योगहितैषिणीभिः नीतिभिः जनपदे नवीननिवेशाय प्रोत्साहनं प्राप्यते। सः उक्तवान् यत् सीहोरे क्रियमाणः निवेशः न केवलम् उद्योगानां विकासाय गतिं प्रदास्यति, अपि तु स्थानीययुवभ्यः रोजगारस्य नवीनान् अवसरान् अपि सर्जिष्यति तथा जनपदस्य प्रदेशस्य च अर्थव्यवस्थां सुदृढां करिष्यति।

सः उक्तवान् यत् यत्र यत्र निवेशः भवति, तत्र तत्र युवभ्यः रोजगारस्य नवीनाः अवसराः अपि सृज्यन्ते। प्रदेशसर्वकारस्य प्रयत्नः अस्ति यत् औद्योगिकविकासेन सह स्थानीययुवभ्यः रोजगारस्य कौशल-विकासस्य च उत्तमाः अवसराः प्राप्येरन्। नवीनोद्योगानां स्थापनया क्षेत्रस्य अर्थव्यवस्था सुदृढा भविष्यति तथा युवभ्यः स्वक्षेत्रे एव रोजगारः उपलब्धः भविष्यति। सर्वकारः निवेशकेभ्यः आवश्यकाः सुविधाः प्रदाय प्रदेशम् औद्योगिके रोजगारक्षेत्रे च अग्रणीं कर्तुं निरन्तरं कार्यं करोति।

सः उक्तवान् यत् सीहोरः भोपाल-महानगरीयक्षेत्रस्य महत्त्वपूर्णः भागः अस्ति तथा राजधान्या भोपालेन सह तस्य सम्पर्कव्यवस्थायाः विकासस्य च गतिः अधिका क्रियते। महानगरीयक्षेत्रे सम्मिलितत्वेन सीहोरे औद्योगिक-व्यावसायिक-रोजगारावसराणां विस्तारः भविष्यति। सः उक्तवान् यत् उत्तममार्गाणां, परिवहनस्य अन्यासां च आधारभूतसुविधानां विकासेन भोपालेन सह सीहोरे समन्वितविकासः भविष्यति तथा अग्रिमकाले एषः प्रदेशः आर्थिकक्रियाकलापानां प्रमुखकेन्द्ररूपेण उद्भविष्यति।

मुख्यमन्त्री डॉ. यादवः सीहोरे बड़ियाखेड़ी-औद्योगिकक्षेत्रे स्थितस्य सीजी पावर एण्ड् इण्डस्ट्रियल् सॉल्यूशन्स लिमिटेड इत्यस्य ट्रान्सफॉर्मर-निर्माणसंयन्त्रस्य निरीक्षणं कृतवान्। अस्मिन् समये तेन संयन्त्रे ट्रान्सफॉर्मर-निर्माणस्य प्रक्रिया, आधुनिकप्रौद्योगिकी उत्पादनक्षमता च विषये सूचनाः प्राप्ताः। तेन संस्थायाः अधिकारिभ्यः उद्योगस्य सञ्चालनस्य विस्तारस्य च विषये सूचना प्राप्ता तथा प्रदेशे बृहदौद्योगिकनिवेशं प्रवर्धयितुं स्थानीयस्तरे रोजगारस्य अधिकान् अवसरान् सर्जितुं च बलं दत्तम्।

सीजी पावर-संस्थायाः विशेषताः

सीजी पावर एण्ड् इण्डस्ट्रियल सॉल्यूशन्स लिमिटेड इत्यस्य ५० एकड्-परिमिते क्षेत्रे निर्मितम् एतत् संयन्त्रं भारतस्य बृहत्तमं विद्युत्-परिवर्तित्र-निर्माणसंयन्त्रम् अस्ति। अस्मिन् निर्माणे ८८८ कोटिरूप्यकाणां व्ययः अभवत्। अनेन उद्योगेन २००० तः अधिकेभ्यः जनेभ्यः रोजगारः प्राप्स्यते। अत्र २२० के.वी.तः १२०० के.वी.पर्यन्तस्य उच्चक्षमतायुक्तानां विद्युत्-परिवर्तितानां निर्माणं भविष्यति। अस्य संयन्त्रस्य प्रतिमासं ३५ विद्युत्-परिवर्तितानां निर्माणस्य क्षमता अस्ति। एतेन भारतस्य विद्युत्संचरण-अवसंरचनायाः नूतनं सुदृढीकरणं भविष्यति।

Hindusthan Samachar / Divya Ranjan