Enter your Email Address to subscribe to our newsletters

– ७ सितम्बर-दिनाङ्के दिल्ली इत्यत्र भविष्यति सम्मानसमारोहः, केन्द्रीयमन्त्री भूपेन्द्रयादवः प्रदास्यति ‘स्वच्छवायु-प्रशंसापुरस्कारम्’
भोपालम्, ४ सितम्बरमासः (हि.स.)। स्वच्छतासर्वेक्षणस्य अनन्तरम् अधुना राष्ट्रिय-स्वच्छवायु-सर्वेक्षणे-२०२६ अपि मध्यप्रदेशेन महत्त्वपूर्णा उपलब्धिः प्राप्ता। इन्दौरं जबलपुरं च नगरस्तरीय-उत्कृष्टवायुगुणवत्ताप्रबन्धनाय तथा भोपालस्य वार्ड-क्रमाङ्कः ६० वार्डस्तरीय-नवाचाराणां कृते ‘स्वच्छवायु-प्रशंसा-पुरस्कारेण’ सम्मानितं भविष्यति।
जनसम्पर्काधिकारिणी अवन्तिका-जायसवालः शुक्रवासरे सूचनां दत्त्वा उक्तवती यत् राष्ट्रिय-स्वच्छवायु-कार्यक्रमस्य अन्तर्गतं आयोजिते ‘राष्ट्रिय-स्वच्छवायु-सर्वेक्षणे-२०२६’ मध्यप्रदेशेन पर्यावरणसंरक्षणस्य सततविकासस्य च लक्ष्यं साकारयन् देशे पुनरपि स्वकीयं विशिष्टं परिचयं स्थापितवती। प्रधानमन्त्री नरेन्द्रमोदिनः “स्वच्छवायुः, स्वस्थभारतं” इति दूरदर्शिनः दृष्टिकोणस्य तथा मुख्यमन्त्रिणः डॉ. मोहनयादवस्य कुशलस्य पर्यावरणहितैषिणश्च नेतृत्वस्य अन्तर्गतं प्रदेशेन प्रदूषणनियन्त्रणस्य, हरितावरणविस्तारस्य, नागरिक-सहभागितायाश्च दिशि गौरवपूर्णः अध्यायः रचितः।
सा उक्तवती यत् अस्मिन् राष्ट्रियस्तरीये प्रतिस्पर्धात्मककार्यक्रमे प्रदेशस्य इन्दौर-जबलपुरनगराभ्यां नगरस्तरीय-उत्कृष्टवायुगुणवत्ताप्रबन्धनाय तथा भोपालनगरनिगमस्य वार्ड-क्रमाङ्काय ६० वार्डस्तरीय-नवाचाराणां कृते ‘स्वच्छवायु-प्रशंसापुरस्कारेण’ सम्मानं प्रदास्यते। एतत् राष्ट्रियसम्मानं ७ सितम्बर् २०२६ दिनाङ्के नवदिल्ली इत्यत्र स्थिते इन्दिरापर्यावरणभवने गङ्गासभागारे ‘स्वच्छवायुदिवसस्य’ समारोहस्य अवसरे केन्द्रीयपर्यावरण-वन-जलवायु-परिवर्तनमन्त्री भूपेन्द्रयादवः प्रदास्यति।
स्वच्छवायुप्रबन्धने नूतनं प्रतिमानं स्थापितम्
देशे स्वच्छतायाः सर्वोत्कृष्टप्रतिमानरूपेण प्रतिष्ठितम् इन्दौरनगरं स्वच्छवायु-प्रबन्धनस्य क्षेत्रेऽपि स्वकीयां प्राविधिक-दक्षतां दृढसङ्कल्पं च प्रदर्शयन् अनुपमम् उदाहरणं प्रस्तुतवती। इन्दौरनगरनिगमेन प्रभाविरूपेण क्रियान्वितानि धूलि-नियन्त्रणोपायाः, वैज्ञानिकरीत्या मार्ग-मार्जनव्यवस्था, हरितपट्टिकानां निरन्तर-विस्तारः, निर्माण-विध्वंस-अवशिष्टानां सुव्यवस्थितं प्रबन्धनं तथा सघनजनजागरूकता-अभियानानि नगरस्य वायुमण्डलं निर्मलं कर्तुं निर्णायिकां भूमिकां निर्वहन्ति।
अस्यामेव शृङ्खलायां जबलपुरनगर-निगमेन अपि स्वच्छवायुमानकेभ्यः सर्वथा अनुकूलानां प्रदूषणनियन्त्रणरणनीतिनां, हरितोपक्रमाणां अनुकरणीय-सामु-दायिक-सहभागितायाश्च बलेन राष्ट्रिय-स्तरे स्वकीयां प्रभावशीलतां सिद्ध्य एषा गौरवपूर्णा उपलब्धिः प्राप्ता। उभे अपि महानगरे प्रमाणितवत्यौ यत् जन-सामान्यस्य सहभागितया सञ्चालितः प्रत्येकं प्रयत्नः पर्यावरणसंरक्षणे क्रान्ति-कारीं परिवर्तनं जनयितुं शक्नोति।
भोपालस्य वार्ड-६० इत्यस्य नवाचाराणां परिणामः
जनसम्पर्काधिकारिण्याः कथनानुसारं राष्ट्रिय-स्वच्छवायु-कार्यक्रमस्य अन्तर्गतं प्रथमवारं प्रारब्धायां सूक्ष्म-वार्डस्तरीय-प्रतिस्पर्धायां भोपालनगरनिगमस्य वार्ड-क्रमाङ्कः ६० स्थानीयस्तरे वायुगुण-वत्तायाः सुधारस्य हरितविकासस्य च या आदर्शव्यवस्थां स्थापितवती, सा देशस्य नगरीयनिकायानां कृते अनुकरणीया अस्ति। वार्ड-क्रमाङ्केन ६० सघनस्वच्छता-अभियानैः, स्थानीयहरिता-वरणसंवर्धनेन, प्रदूषणमुक्त्युपक्रमैः नागरिकाणाम् अनुशासितसहभागितया च अस्मिन् राष्ट्रियपुरस्कारे स्वनाम अङ्कितं कृतम्।
नगरीयविकास-आवासायुक्तः सङ्केत-भोंडवे उक्तवान् यत् एषा अभूतपूर्वा उपलब्धिः प्रधानमन्त्रीमोदिनः ‘विकसितं स्वच्छं च भारतम्’ इति संकल्पस्य तथा मुख्यमन्त्रिणः डॉ. यादवस्य मार्गदर्शने क्रियान्वितानां सततपर्यावरणनीतिनां च परिणामः अस्ति। मध्यप्रदेशस्य नगर-निकायानि एतेनैव निष्ठाभावेन नागरिकसहभागितया च स्वच्छवायोः, हरितविकासस्य गुणवत्तापूर्णजीवनस्य च राष्ट्रियप्रतिमानरूपेण निरन्तरम् अग्रणीं भूमिकां निर्वक्ष्यन्ति।
Hindusthan Samachar / Divya Ranjan