Enter your Email Address to subscribe to our newsletters


- मुख्यमंत्रिणः उपस्थितौ आरयूएमएसएल अथ च एडीबी इत्येतयोः मध्ये संजाता सहमतिः
भोपालम्, 04 सितम्बरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् अस्माकं मध्यप्रदेशः हरितराज्यम् अस्ति एव, अधुना हरित-स्वच्छऊर्जाक्षेत्रे अर्थात् नवीन-नवीकरणीयऊर्जाक्षेत्रेऽपि नूतनया आशया नूतनया च परिचयेन सह अग्रे वर्धते। मध्यप्रदेशे हरितऊर्जायाः असीमाः सम्भावनाः सन्ति। वयं तासामेव सम्भावनानां चरणबद्धरूपेण अन्वेषणं कुर्मः।
एतद् उक्तं मुख्यमन्त्रिणा डॉ. यादवेन शुक्रवासरे मुख्यमन्त्रिनिवासस्थिते समत्वभवने। व्यवहारपरामर्शसेवासम्झौते अर्थात् टीएएसए-अन्तर्गते मध्यप्रदेशे नवीन-नवीकरणीयऊर्जाविभागस्य अन्तर्गतं त्रयाणां महत्त्वपूर्णपरियोजनानां कृते रीवाअल्ट्रामेगासोलरलिमिटेड् अर्थात् आरयूएमएसएल-संस्थायाः एशियाईविकासबैङ्केन च सह ज्ञापनसम्झौते कृते सति मुख्यमन्त्री उक्तवान्।
मुख्यमन्त्री डॉ. यादवः एशियाईविकासबैङ्काय रीवाअल्ट्रामेगासोलरलिमिटेड्-संस्थायै च एतेषु महत्त्वपूर्णेषु सम्झौतेषु अभिनन्दनं कृत्वा अवदत् यत् अयं सम्झौतः मध्यप्रदेशे स्वच्छविश्वसनीयसुलभमूल्यऊर्जायाः विकासस्य दिशि महत्त्वपूर्णं सोपानम् अस्ति। तेन उक्तं यत् मध्यप्रदेशेन विगतेषु वर्षेषु नवीकरणीयऊर्जाक्षेत्रे नवाचारैः, बृहद्भिः परियोजनाभिः तथा प्रतिस्पर्धात्मकैः पारदर्शकैश्च निविदाप्रक्रियाभिः देशे स्वस्य विशिष्टं स्थानं निर्मितम् अस्ति।
मुख्यमन्त्री डॉ. यादवः अवदत् यत् अस्माकं लक्ष्यं केवलं नवीकरणीयऊर्जायाः क्षमतावर्धनं नास्ति, अपितु तादृशव्यवस्थायाः विकासः अस्ति या विश्वसनीया, सुलभमूल्या, सतता, चतुर्विंशतिः होराः सप्तदिनानि च उपलब्धा भवेत् तथा च प्रदेशस्य वर्धमानानाम् ऊर्जाआवश्यकतानां पूर्तिं कर्तुं शक्नुयात्। अस्यामेव दिशि आरयूएमएसएल-संस्थायाः एडीबी-संस्थया सह व्यवहारपरामर्शसेवासम्झौतासम्बन्धी ज्ञापनसम्झौतः महत्त्वपूर्णा उपलब्धिः अस्ति। तेन उक्तं यत् एडीबी-संस्थया आरयूएमएसएल-संस्थायै त्रयाणां नवीकरणीयऊर्जापरियोजनानां कृते निःशुल्काः व्यवहारपरामर्शसेवाः प्रदीयन्ते।
मुख्यमन्त्री डॉ. यादवः अस्याः उपलब्धेः विषये प्रसन्नतां व्यक्तं कृत्वा अवदत् यत् अस्य सहयोगस्य उद्देश्यं वित्तपोषणयोग्याः स्थायिनश्च व्यावसायिकव्यवहारसंरचनाः निर्मातुम् अस्ति, येन मध्यप्रदेशे नवीकरणीयऊर्जाक्षेत्रे दीर्घकालिकनिवेशस्य प्रोत्साहनं भवेत्। मुख्यमन्त्री डॉ. यादवः अवदत् यत् एताः परियोजनाः अस्माकं भविष्यस्य ऊर्जाव्यवस्थायाः महत्त्वपूर्णम् आधारं भविष्यन्ति। एताभिः विद्युत्जालस्थैर्यं, नवीकरणीयऊर्जायाः समाकलनं तथा अधिकतममागधाव्यवस्थापनं च सुदृढं भविष्यति।
मुख्यमन्त्री डॉ. यादवः अवदत् यत् मध्यप्रदेशे उपलब्धानां विशालानां सौर-पवनऊर्जासम्भावनानां सह विद्युत्सञ्चरणसंरचनायाः भण्डारणक्षमतायाश्च विकासे समानरूपेण ध्यानं दीयते। तेन उक्तं यत् अस्माकं सर्वकारस्य प्रयासः अस्ति यत् नवीकरणीयऊर्जां केवलं विद्युत्उत्पादनस्य स्रोतः इति न दृष्ट्वा तस्याः औद्योगिकविकासस्य, हरितनिवेशस्य, रोजगारसृजनस्य आर्थिकविकासस्य च प्रेरकशक्तिरूपेण विकासः क्रियेत।
मुख्यमन्त्री डॉ. यादवः मध्यप्रदेशे स्थाप्यमानासु त्रिषु परियोजनासु तकनीकीसहयोगं वित्तीयसहायतां च प्रदातुं एशियाईविकासबैङ्कस्य आभारं व्यक्तं कृत्वा रीवाअल्ट्रामेगासोलरलिमिटेड् तथा नवीन-नवीकरणीयऊर्जाविभागस्य अस्याः क्रान्तिकारीपहलस्य प्रशंसां कृतवान्।
ज्ञापनसम्झौते-टीएएसए-अन्तर्गते मध्यप्रदेशे त्रयाणां परियोजनानां कृते बृहद् सज्जता क्रियते। अस्मिन् प्रधानमन्त्रिसूर्यसरोवरयोजनायाः अन्तर्गते तैरते सौरपरियोजनया सह रीवाअल्ट्रामेगासोलरलिमिटेड्-संस्थायै २७८ मेगावाट् क्षमतायुक्तस्य ओङ्कारेश्वरचरणस्य कृते ज्ञापनसम्झौतः कृतः। रीवाअल्ट्रामेगासोलरलिमिटेड्-संस्थायाः तैरत्सौरपरियोजनायाः विकासे दीर्घकालिकः अनुभवः अस्ति। इयं परियोजना भारतस्य बृहत्तमासु तैरत्सौरपरियोजनासु अन्यतमा अस्ति। ओङ्कारेश्वरे एव ३०० मेगावाट् क्षमतायै अतिरिक्तं जलाशयक्षेत्रं आवश्यकं च आधारभूतसंरचना उपलब्धा अस्ति। अस्याः ६०० मेगावाट् क्षमतायुक्तायाः परियोजनायाः कृते पूर्वमेव सर्वेक्षणं, पूर्वसम्भाव्यताध्ययनं तथा विस्तृतपरियोजनाप्रतिवेदनस्य अध्ययनं च कृतम् अस्ति। प्रधानमन्त्रिसूर्यसरोवरयोजनायां द्विहोरात्मकसहस्थितऊर्जाभण्डारणव्यवस्थायुक्तस्य तैरत्सौरविद्युत्-परियोजनायै प्रतिमेगावाट् एककोटिरूप्यकाणां केन्द्रीयवित्तीयसहायतां प्रदातुं प्रावधानम् अस्ति।
ज्ञापनसम्झौते कार्यक्रमे नवीन-नवीकरणीयऊर्जामन्त्री राकेशशुक्लः, अपरमुख्यसचिवः मनुश्रीवास्तवः, मध्यप्रदेशऊर्जाविकासनिगमस्य प्रबन्धनिदेशकः अमिततोमरः सहिताः अन्ये विभागीयाः अधिकारिणः, एशियाईविकासबैङ्कस्य तथा आरयूएमएसएल-संस्थायाः वरिष्ठाः पदाधिकारिणश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani