रामदास आठवलेन श्रमिकेभ्यः वितरितानि ‘नमस्ते’-‘आयुष्मान’-पत्राणि
नवदिल्ली, ०४ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयसामाजिकन्यायाधिकारिताराज्यमन्त्री रामदास आठवलेः शुक्रवासरे मटियालास्थिते महानगरपालिकायाः सामुदायिकभवने नजफगढ-क्षेत्रस्य अपशिष्टसङ्ग्राहकेभ्यः श्रमिकेभ्यः ‘नमस्ते’ तथा ‘आयुष्मान’-पत्राणि वितरितवान्। मन्
केन्द्रीय राज्य मंत्री रामदास अठावले के साथ अन्य लोग मौजूद।


नवदिल्ली, ०४ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयसामाजिकन्यायाधिकारिताराज्यमन्त्री रामदास आठवलेः शुक्रवासरे मटियालास्थिते महानगरपालिकायाः सामुदायिकभवने नजफगढ-क्षेत्रस्य अपशिष्टसङ्ग्राहकेभ्यः श्रमिकेभ्यः ‘नमस्ते’ तथा ‘आयुष्मान’-पत्राणि वितरितवान्।

मन्त्रालयस्य अनुसारं राष्ट्रिय-मशीनीकृत-स्वच्छता-पारिस्थितिकी-तन्त्रस्य योजनायाः अन्तर्गतं अपशिष्ट-सङ्ग्राहकेभ्यः श्रमिकेभ्यः औपचारिक-परिचयं प्रदातुं सामाजिकसुरक्षां च दातुं दिशि एतत् महत्त्वपूर्णं पदम् अस्ति। अस्याः योजनायाः उद्देश्यम् समस्यापूर्णस्य हस्तस्वच्छताकार्यस्य समाप्तिः, स्वच्छता-कार्याणां यान्त्रिकीकरणं तथा श्रमिकेभ्यः कौशलविकासस्य सामाजिक-सुरक्षा-लाभानां च प्रदानम् अस्ति।

मन्त्रिणा उक्तं यत् सर्वकारः स्वच्छता-कर्मिणां सुरक्षायै, गरिम्णे कल्याणाय च पूर्णतया प्रतिबद्धः अस्ति। तेन श्रमिकेभ्यः आश्वासनं दत्तं यत् सर्वकारः तेषां कार्यपरिस्थितीनां सुधाराय कल्याण-कारीयोजनानां प्रत्यक्षलाभप्राप्तेः सुनिश्चित्यै च निरन्तरं कार्यं करिष्यति।

अस्य कार्यक्रमस्य समये ‘नमस्ते’-पत्रैः सह श्रमिकेभ्यः ‘आयुष्मान’-पत्राणि अपि प्रदत्तानि, येन ते निःशुल्कां गुणवत्तापूर्णां स्वास्थ्यसेवां प्राप्तुं शक्नुयुः। अस्मिन् कार्यक्रमे महानगरपालिकायाः नजफगढ-क्षेत्रात् ३०० अधिकाः अपशिष्टसङ्ग्राहकाः श्रमिकाः भागं गृहीतवन्तः।

Hindusthan Samachar / Divya Ranjan