Enter your Email Address to subscribe to our newsletters

काठमांडूः, 04 सितंबरमासः (हि.स.)।
नेपालस्य प्रधानमन्त्री बालेन्द्र शाहः श्रीकृष्णजन्माष्टम्याः अवसरे देशवासिभ्यः शुभकामनाः प्रदत्तवान्। सः उक्तवान् यत् आपदः चुनौतयश्च मनुष्यस्य धैर्यस्य कर्मणश्च परीक्षां कुर्वन्ति।
प्रधानमन्त्री शाहः स्वस्य फेसबुक-सन्देशस्य माध्यमेन शुभकामनां प्रददत्। सः उक्तवान् यत् एतादृशे कठिनसमये पूर्णनिष्ठया स्वकीयां भूमिकां निर्वहणमेव भगवान् श्रीकृष्णेन प्रदर्शितः वास्तविकः कर्मयोगः अस्ति। सः लिखितवान्— “आपदः चुनौतयश्च आगच्छन्ति, ये अस्माकं धैर्यस्य कर्मणश्च परीक्षां कुर्वन्ति। एतादृशे समये पूर्णनिष्ठया स्वकीयां भूमिकां निर्वहणमेव श्रीकृष्णेन शिक्षितः वास्तविकः कर्मयोगः अस्ति।”
प्रधानमन्त्री शाहः कामनां कृतवान् यत् श्रीकृष्णजन्माष्टम्याः अवसरॆ सर्वेभ्यः स्वकर्तव्यस्य मार्गे अडिगरूपेण स्थातुं धैर्यं शक्तिश्च प्राप्येताम्। तस्य अयं सन्देशः तस्मिन् समये आगतः, यदा नेपालः प्राकृतिकविपदया प्रभावितः अस्ति तथा च राहताकार्यं रक्षणकार्यं च निरन्तरं प्रचलति।
---------------
Hindusthan Samachar / Dheeraj Maithani