Enter your Email Address to subscribe to our newsletters

काठमांडूः, 04 सितंबरमासः (हि.स.)।
श्रीकृष्णजन्माष्टमीपर्वणः अवसरे राष्ट्रपतिः रामचन्द्रपौडेलः शुक्रवासरे ललितपुरस्य पाटनस्थे प्रसिद्धे कृष्णमन्दिरे दर्शनं पूजार्चनं च कृतवान्।
राष्ट्रपतिः पौडेलः प्रथममहिला सबितापौडेलया सह पाटनदरबारक्षेत्रस्थितं कृष्णमन्दिरं प्राप्तवान् तथा भगवान् श्रीकृष्णस्य पूजाराधनां कृतवान्। श्रीकृष्णजन्माष्टम्याः अवसरे प्रतिवर्षं राष्ट्राध्यक्षेण कृष्णमन्दिरे दर्शनं पूजार्चनं च क्रियते इति परम्परा अस्ति।
कृष्णमन्दिरपरिसरे राष्ट्रपतिः पौडेलः सांसदेन जगदीशखरेलः, ललितपुरमहानगरपालिकायाः प्रमुखेण चिरीबाबुमहर्जनेन, जनप्रतिनिधिभिः मन्दिरस्य पूजारिभिश्च सह स्वागतं प्राप्तवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani