प्रधानमन्त्रिणा जॉर्जिया मेलोनी-महोदयायै वर्धापनानि प्रदत्तानि
नवदिल्ली, ०४ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना शुक्रवासरे इटलीदेशस्य प्रधानमन्त्रिण्यै जॉर्जिया मेलोनी-महोदयायै द्वितीयविश्वयुद्धा-नन्तरम् इटलीदेशस्य इतिहासे अविच्छिन्नरूपेण दीर्घतमकालपर्यन्तं शासनं कृत्वा नूतनं कीर्तिमानं स्था
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, ०४ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना शुक्रवासरे इटलीदेशस्य प्रधानमन्त्रिण्यै जॉर्जिया मेलोनी-महोदयायै द्वितीयविश्वयुद्धा-नन्तरम् इटलीदेशस्य इतिहासे अविच्छिन्नरूपेण दीर्घतमकालपर्यन्तं शासनं कृत्वा नूतनं कीर्तिमानं स्थापितवती इति कारणेन वर्धापनानि प्रदत्तानि।

प्रधानमन्त्रिणा ‘एक्स’-माध्यमे लिखितम्— “इटलीदेशस्य युद्धोत्तर-इतिहासे निरन्तररूपेण दीर्घतमकालपर्यन्तं प्रधान-मन्त्रिपदे स्थितवत्यै मम सखी प्रधानमन्त्रिण्यै मेलोनी-महोदयायै हार्दिकानि वर्धापनानि। एषा उपलब्धिः तस्याः नेतृत्वे इटलीदेशस्य जनानां दृढविश्वासं श्रद्धां च प्रतिबिम्बयति। भारत-इटलीदेशयोः विशेष-सामरिक-सहभागितां सुदृढीकर्तुं तस्याः मैत्रीपूर्णभूमिका महत्त्वपूर्णा अभवत्। उभयोः देशयोः जनानां समृद्धभविष्यस्य निर्माणाय अस्माकं निकटसहयोगः निरन्तरं भवेत् इति मम अपेक्षा अस्ति। अग्रिमेषु वर्षेषु तस्याः निरन्तरसफलतायै मम हार्दिक्य: शुभकामनाः।”

उल्लेखनीयं यत् मेलोनी-महोदया २०२२ तमस्य वर्षस्य अक्टोबर-मासस्य २२ दिनाङ्कात् इटलीदेशस्य प्रधानमन्त्रिपदे विराजमाना अस्ति। २०२६ तमस्य वर्षस्य सेप्टेम्बर-मासस्य ३ दिनाङ्के निरन्तरं १४१३ दिनानि पूर्णानि कृत्वा तस्याः सरकारः १९४६ तमे वर्षे इटलीगणराज्यस्य स्थापनानन्तरं द्वितीयविश्वयुद्धोत्तरकाले अविच्छिन्नरूपेण सर्वाधिककालपर्यन्तं सत्तायां स्थितवती प्रथमं शासनं अभवत्। तया पूर्वप्रधानमन्त्रिणः सिल्वियो बर्लुस्कोनी-महोदयस्य कीर्तिमानं भग्नम्।

Hindusthan Samachar / Divya Ranjan