कुटीरेभ्यः पक्क्वगृहपर्यन्तं प्राप्तं ग्रामाणां चित्रं, प्रधानमन्त्रिणः आवासयोजनया सहस्राधिकपरिवाराणां जीवनं परिवर्तितम्
दरभङ्गा, ०४ सेप्टेम्बरमासः (हि.स.)। कदाचित् मृत्तिकाभित्तयः, तृणच्छादनानि वर्षाकाले च जलस्रावयुक्तानि गृहाणि ग्रामीणजीवनस्य परिचायकानि आसन्। वर्षाकाले कुटीषु निवसतां परिवाराणां कृते रात्रियापनमपि कदाचित् समस्यापूर्णं भवति स्म। तीव्रवृष्टौ वात्यायां
कुटीरेभ्यः पक्क्वगृहपर्यन्तं प्राप्तं ग्रामाणां चित्रं, प्रधानमन्त्रिणः आवासयोजनया सहस्राधिकपरिवाराणां जीवनं परिवर्तितम्


दरभङ्गा, ०४ सेप्टेम्बरमासः (हि.स.)। कदाचित् मृत्तिकाभित्तयः, तृणच्छादनानि वर्षाकाले च जलस्रावयुक्तानि गृहाणि ग्रामीणजीवनस्य परिचायकानि आसन्। वर्षाकाले कुटीषु निवसतां परिवाराणां कृते रात्रियापनमपि कदाचित् समस्यापूर्णं भवति स्म। तीव्रवृष्टौ वात्यायां च छादनस्य रक्षणस्य चिन्ता भवति स्म, ग्रीष्मकाले च तृणच्छादनस्य अधः जीवनं संतप्तं भवति स्म। एतादृशानां परिवाराणां कृते प्रधानमन्त्रिणः आवासयोजना-ग्रामीणः केवलं सर्वकारीयः योजनाप्रकल्पः न, अपि तु पक्कच्छदनं सम्मानपूर्वकं जीवन-यापनस्य च साधनरूपेण समुपस्थित: अस्ति।

दरभङ्गाजनपदस्य ग्रामीणक्षेत्रेषु विगतेषु वर्षेषु ग्रामाणां स्वरूपे महत्त्वपूर्णः परिवर्तनः दृष्टः अस्ति। यत्र कदाचित् दूरे दूरे पर्यन्तं तृणच्छदितानि खपरैलच्छदितानि च गृहाणि दृश्यन्ते स्म, तत्र अधुना बहुसंख्यया पक्कगृहाणि दृश्यन्ते। निर्धनपरिवाराणां कृते स्वकीयस्य पक्कगृहस्य प्राप्तिः जीवनस्य प्रमुखासु आवश्यकतासु अन्तर्भवति। प्रधानमन्त्रिणः आवास-योजनया एतस्याः आवश्यकतायाः पूर्तौ महत्त्वपूर्णा भूमिका निर्व्यूढा अस्ति।

कुटीरतः पक्क्वगृहपर्यन्तं यात्रा

प्रधानमन्त्रिणः आवासयोजना-ग्रामीणस्य अन्तर्गतं तेषां परिवाराणां प्राथमिकतया चयनं क्रियते, ये आवासविहीनाः सन्ति अथवा कच्चेषु जीर्णगृहेषु निवसितुं विवशाः सन्ति। योजनान्तर्गतं प्राप्यमाणया आर्थिकसहायतया लाभग्राहिणः स्वकीयस्य पक्क्वगृहस्य निर्माणं कुर्वन्ति। बहूनां परिवाराणां कृते एषा प्रथमावस्था अस्ति, यदा तेषां समीपे वर्षायाः, वात्यायाः ग्रीष्मस्य च प्रभावात् सुरक्षितं स्वकीयम् आवासं विद्यते।

दरभङ्गायाः ग्रामेषु एतत् परिवर्तनं स्पष्टतया द्रष्टुं शक्यते। येषां परिवाराणां गृहाणि कदाचित् तृणच्छदनेन आच्छादितानि आसन्, तेषाम् आङ्गणे अधुना इष्टिका-सीमेण्टनिर्मितानि गृहाणि स्थितानि सन्ति। बालकेभ्यः अध्ययनाय सुरक्षितं स्थानं प्राप्तम्, महिलाभ्यः वृद्धेभ्यश्चापि ऋतुप्रतिकूलतायाः पर्याप्तं सौविध्यं प्राप्तम् अस्ति।

२.१३ लक्षाधिकानि आवासगृहाणि पूर्णानि

उपलब्धसर्वकारीयाङ्कडानुसारं वित्तीयवर्षे २०१६-१७ तः २०२१-२२ पर्यन्तं दरभङ्गाजनपदे प्रधानमन्त्रिणः आवासयोजना-ग्रामीणस्य २ लक्षं १३ सहस्रं ५२७ गृहाणि पूर्णानि कारितानि आसन्। एतत् निर्धारितलक्ष्यस्य ९९.१८ प्रतिशतं भवति। अयं सङ्ख्यात्मकः विवरणः सूचयति यत् जनपदस्य ग्रामीणक्षेत्रेषु योजनायाः व्यापकस्तरे कार्यान्वयनं कृतम् अस्ति।

तदनन्तरमपि आवासनिर्माणस्य प्रक्रिया प्रचलति। वित्तीयवर्षे २०२६-२७ मध्ये १७ सहस्रं ५७९ आवासानां पूर्णता अभवदिति जनपदस्तरे आयोजिते कार्यक्रमे सूचितम्। पूर्णगृहाणां लाभग्राहिणां गृहप्रवेशः कारितः तथा नूतनलाभग्राहिभ्यः स्वीकृतिपत्राणि प्रदत्तानि।

पक्क्वगृहेण निर्धनानां आत्मविश्वासः वर्धितः

कस्यचित् निर्धनपरिवारस्य कृते पक्कगृहं केवलं चतस्रो भित्तयः न भवन्ति। तत् सुरक्षा-सम्मानयोः भविष्यस्य च आधारः भवति। तृणकुटीरेषु निवसतां परिवाराणां कृते प्रत्येकस्मिन् वर्षाकाले गृहस्य पतनस्य सामग्रीणां च आर्द्रीभवनस्य चिन्ता भवति स्म। पक्क्वगृहस्य प्राप्त्या एतादृशाभ्यः चिन्ताभ्यः बहुधा मुक्तिः प्राप्ता अस्ति।

गृहस्य प्रभावः परिवारस्य बालकानां अध्ययनमपि भवति। सुरक्षितं वातावरणं प्राप्य बालकेभ्यः अध्ययनाय उत्तमं स्थानं लभ्यते। महिलाभ्यः अपि पक्क्वगृहं सुरक्षायाः निजतायाश्च अनुभवं प्रददाति। अस्मिन् दृष्टिकोणे आवासयोजनायाः प्रभावः केवलं गृहनिर्माणपर्यन्तं सीमितः नास्ति, अपि तु ग्रामीणपरिवाराणां जीवनस्तरस्य परिवर्तनेन सह सम्बद्धः अस्ति।

ग्रामे ग्रामे परिवर्ततं आवासस्य स्वरूपम्

दरभङ्गायाः ग्रामीणक्षेत्रेषु मार्गाणां पार्श्वेषु ग्रामेषु च अधुना बहुसंख्यया नूतनानि पक्क्वगृहाणि दृश्यन्ते। तृणच्छादनानां स्थाने पक्क्वच्छादनानि स्थानं प्राप्तवन्ति। तथापि अद्यापि बहुषु ग्रामेषु निर्धनपरिवाराः अपक्वेषु जीर्णगृहेषु वा निवसन्ति। अस्य सङ्केतः वर्षे २०२४-२५ मध्ये कृताद् आवाससर्वेक्षणादपि प्राप्यते, यस्मिन् जनपदे ३ लक्षं २ सहस्रं ९३३ आवास-विहीनपरिवाराः चिह्निताः इति सूचना प्राप्ता।

अयं सङ्ख्यात्मकः विवरणः एतदपि सूचयति यत् योजनया बहुसंख्याकाः परिवाराः लाभान्विताः अभवन्, तथापि आवासस्य आवश्यकता अद्यापि पूर्णतया समाप्ता नास्ति। सर्वेक्षणे चिह्निताः सर्वे परिवाराः स्वयमेव योजनायाः पात्राः न मन्यन्ते। पात्रतायाः सत्यापनस्य च अनन्तरमेव लाभग्राहिणां अन्तिमं चयनं क्रियते।

अधुना प्रत्येकं पात्रपरिवारं प्रति प्राप्तिः समस्या

प्रधानमन्त्रिणः आवासयोजनया ग्रामीण-दरभङ्गायाः स्वरूपपरिवर्तने महत्त्वपूर्णा भूमिका निर्व्यूढा अस्ति, किन्तु अग्रिमा समस्या तेषां परिवाराणां पर्यन्तं प्राप्तिः अस्ति, ये अद्यापि कुटीरेषु, तृणच्छादितेषु अथवा जीर्णगृहेषु जीवनं यापयन्ति। वास्तविकरूपेण आवश्यक-तावन्तः परिवाराः पारदर्शितया चीयेरन्, तेभ्यः समये स्वीकृतिः प्राप्नुयात् तथा गृहनिर्माणाय निर्धारितधनराशेः किस्ताः समये उपलब्धाः कारयेयुरिति आवश्यकता अस्ति।

ग्रामाणां स्वरूपं अद्यापि पूर्णतया परिवर्तितं नास्ति, किन्तु परिवर्तनं स्पष्टतया दृश्यते—यत्र कदाचित् तृणच्छादिताः कुटीराः आसन्, तत्र अधुना ग्रामे ग्रामे पक्क्वगृहाणि दृश्यन्ते।

Hindusthan Samachar / Divya Ranjan