मण्डी इत्यत्र जन्माष्टम्याः उत्साहः, सुन्दरैः प्रदर्शिनीभिः कृष्णमयं जातं नगरम्
मण्डी, ४ सितम्बरमासः (हि.स.)। वर्षायाः मिश्रिते ऋतौ, कदाचित् सूर्यप्रकाशे कदाचित् छायायां तथा च सामान्यवृष्टेः मध्ये शुक्रवासरे मण्डीनगरे श्रीकृष्ण-जन्माष्टमी-महोत्सवस्य विशेषः उत्सवः आसीत्। मन्दिराणां नगरे मण्डीनगरे अनेकस्थलेषु झूलनोत्सवस्य कार्यक
फोटोः मंडी में जन्माष्टमी के मौके पर निकाली गई झांकी


शोभायात्रा में भाग लेते हुए लोग


मण्डी, ४ सितम्बरमासः (हि.स.)। वर्षायाः मिश्रिते ऋतौ, कदाचित् सूर्यप्रकाशे कदाचित् छायायां तथा च सामान्यवृष्टेः मध्ये शुक्रवासरे मण्डीनगरे श्रीकृष्ण-जन्माष्टमी-महोत्सवस्य विशेषः उत्सवः आसीत्। मन्दिराणां नगरे मण्डीनगरे अनेकस्थलेषु झूलनोत्सवस्य कार्यक्रमाः अपि आयोजिताः।

सनातनधर्मसभायां मण्डी इत्यत्र २८ अगस्त-दिनाङ्कात् प्रचलितेषु कार्यक्रमेषु प्रतिदिनं प्रभातशोभायात्रा, श्रीकृष्णस्य लीलानां चरित्रस्य च वर्णनं च भवति स्म। तदनन्तरं शुक्रवासरे भव्यायाः शोभायात्रायाः आयोजनं कृतम्। शोभा-यात्रायां भगवतः श्रीकृष्णस्य पालक्या सह ग्रामीणाः देवी-देवताः अपि सम्मिलिताः अभवन्।

सनातनधर्मसभातः प्रारब्धा एषा शोभायात्रा सम्पूर्णनगरस्य विभिन्नमार्गान् परिभ्रम्य पुनः मन्दिरपरिसरे एव सम्पन्ना अभवत्। तदनन्तरं मन्दिरपरिसरे रात्रौ द्वादशवादनपर्यन्तं विविधाः कार्यक्रमाः अभवन्। अस्मिन् अवसरे नगरस्य सर्वेषु मन्दिरेषु भक्तानां विशालः जनसमुदायः समागतः।

अपरतः, इस्कान-सङ्घटनेन ऐतिहासिके सेरी-मञ्चे विशेषकार्यक्रमस्य आयोजनं कृतम्। अस्मिन् कार्यक्रमे बहुसंख्यकाः जनाः तथा इस्कान्-सङ्घटनेन सम्बद्धाः श्रद्धालवः अपि उत्साहेन भागं गृहीतवन्तः।एतेषां सर्वेषां कार्यक्रमाणां कारणेन शुक्रवासरे सम्पूर्णं नगरं कृष्णमयं जातम्। सर्वत्र भगवतः श्रीकृष्णस्य भजनानां भक्तिगीतानां च स्वरैः वातावरणं भक्तिरसेन परिपूर्णम् अभवत्।

Hindusthan Samachar / Divya Ranjan