Enter your Email Address to subscribe to our newsletters

कोलकाता, ४ सेप्टेम्बरमासः (हि.स.)। महानायकस्य उत्तमकुमारस्य जन्म-शताब्दी-अवसरस्य उपलक्ष्ये पश्चिमबङ्गालस्य मुख्यमन्त्री शुभेन्दु-अधिकारी शुक्रवासरे न्यूटाउन-नगरे प्रस्तावितस्य ‘उत्तमकुमार-चलच्चित्र-केन्द्रस्य’ शिलान्यासं कृतवान्। प्रायः २५ कोटिरूप्यकाणां व्ययेन निर्मीयमाणं तत् चलच्चित्रकेन्द्रं बङ्गालस्य चलच्चित्रस्य मनोरञ्जन-उद्योगस्य च कृते आधुनिकसुविधाभिः सुसज्जितं भविष्यति। अस्मिन् अवसरे मुख्यमन्त्रिणा शुभेन्दुअधिकारिणा अभिनेता मिथुन-चक्रवर्ती राज्यसर्वकारस्य सांस्कृतिक-परामर्शदातारूपेण नियुक्तः भविष्यतीति घोषणा कृता।
पश्चिमबङ्गालसर्वकारस्य सूचनासंस्कृति-विभागस्य पक्षतः उक्तं यत् महानायकस्य उत्तमकुमारस्य जन्म-शताब्दी-समारोहस्य शुभारम्भः गुरुवासरे सायं नन्दनपरिसरे अभवत्। तदनन्तरदिने न्यूटाउन-नगरे चलच्चित्रकेन्द्रस्य भूमिपूजनं शिलान्यासश्च कृतः।
प्रस्तावितं ‘उत्तमकुमार-चलच्चित्रकेन्द्रं’ त्रिषु प्रमुखेषु भागेषु विकसितं करिष्यते। प्रथमभागे ७०० तः ७५० आसन्दन-क्षमतायुक्तौ द्वौ चलच्चित्रगृहौ, पूर्वा-वलोकनचलच्चित्रगृहं, भोजनप्रकोष्ठं कारयानस्थानकं च भविष्यति। द्वितीयभागे सांस्कृतिककार्यक्रमाणां कृते प्रायः १,००० आसन्दनक्षमतायुक्तं सभागारम्, मुक्ता-काशनाट्यशाला च निर्मास्येते।
केन्द्रस्य तृतीयभागे सजीवीकरणस्य, दृश्यप्रभावस्य, क्रीडनकस्य, हास्यचित्रस्य, चलच्चित्राणां च निर्माणोत्तरकार्यसम्बद्धाः प्रयोगशालाः स्टुडियो-कक्षाश्च निर्मास्यन्ते। अस्य उद्देश्यं बङ्गालस्य माध्यम-मनोरञ्जन-उद्योगाय आधुनिकतान्त्रिक-सुविधाः उपलब्धाः कारयितुम् अस्ति।
सर्वकारस्य मतमस्ति यत् सजीवीकरणस्य दृश्यप्रभावस्य च सदृशानां तन्त्रज्ञानानां भूमिका अग्रिमेषु दिवसेषु बाङ्गल-चलच्चित्रेषु अधिका वर्धिष्यते। विशेषतः साहसिकेषु काल्पनिकेषु च चलच्चित्रेषु आधुनिकतन्त्रज्ञानस्य प्रयोगस्य वर्धमान-सम्भावनां दृष्ट्वा चलच्चित्रकेन्द्रे उपलब्धाः सुविधाः स्थानीयकलाकाराणां यूनां च कृते महत्त्वपूर्णाः सिद्धाः भवितुम् अर्हन्ति। अनेन चलच्चित्रनिर्मातृभ्यः अपि तुलनया न्यूनव्ययेन आधुनिकतान्त्रिक-सेवाः प्राप्तुं शक्यन्ते इति आशा अस्ति।
सर्वकारेण आगामीषु कतिपयेषु वर्षेषु चलच्चित्रकेन्द्रस्य निर्माणकार्यं पूर्णं कर्तुं लक्ष्यं निर्धारितम् अस्ति। अस्यैव कार्यक्रमस्य समये मुख्यमन्त्रिणा अभिनेतुः मिथुनचक्रवर्तिनः राज्यसर्वकारे सांस्कृतिकपरामर्शदातारूपेण दायित्वं प्रदास्यतीति घोषणा कृता।
न्यूटाउन्-नगरे आयोजिते शिलान्यास-समारोहे मुख्यसचिवः मनोज-अग्रवालः इत्यस्य अतिरिक्तं प्रसेनजित्-चट्टोपाध्यायः, यीशु-सेनगुप्तः, रञ्जित-मल्लिकः इत्यादयः बाङ्गलचलच्चित्रजगतः बहवः विशिष्टाः जनाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan