Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ४ सितम्बरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः शिक्षकदिवसस्य पूर्वसन्ध्यायां देशस्य सर्वेभ्यः शिक्षकेभ्यः शुभकामनाः अयच्छत्।
राष्ट्रपतिः स्वसन्देशे उक्तवती— “शिक्षकदिवसस्य अवसरे अहं देशस्य सर्वेभ्यः शिक्षकेभ्यः हार्दिक्यः शुभकामनाः अर्पयामि। शिक्षकदिवसः पूर्वराष्ट्रपतेः डॉ. सर्वपल्ली-राधाकृष्णनस्य जन्मदिवसस्य उपलक्ष्ये आचर्यते। डॉ. सर्वपल्ली-राधाकृष्णन् महान् लेखकः दार्शनिकश्च आसीत्। सः अतुलनीयः शिक्षकः अपि आसीत्। अस्मिन् अवसरे अहं तस्मै विनम्रां श्रद्धाञ्जलिं समर्पयामि। सर्वेषां समर्पितानां शिक्षकाणां योगदानाय अहं तेभ्यः कृतज्ञतां प्रकटयामि। अहं कामये यत् सर्वे शिक्षकाः तादृशानां प्रबुद्धानां वंशानां निर्माणं कुर्युः, याः देशं नूतनान् शिखरान् प्रति नयन्तु।”
सा उक्तवती यत् शिक्षकाः स्वमार्गदर्शनेन सहयोगेन च विद्यार्थिनां प्रतिभायाः परिष्कारं कुर्वन्ति तथा तान् चरित्रसम्पन्नान् अपि कुर्वन्ति। शिक्षकस्य दायित्वम् अस्ति यत् सः विद्यार्थिनं श्रेष्ठे मनुष्ये रूपान्तरेत्। समर्पितः संवेदनशीलश्च शिक्षकः विद्यार्थिनां विशिष्टां क्षमतां ज्ञात्वा तेषां प्रेरणास्रोतः भवति तथा च तान् स्वकार्येषु उत्कृष्टतां प्राप्तुं समर्थान् करोति। शिक्षकाः प्रौद्योगिकीम् अङ्गीकुर्वन्तः निरन्तरं ज्ञानार्जनं कुर्वन्तु तथा शिक्षणस्य नवीनाः पद्धतीः अपि स्वीकरोतु। विद्यार्थिषु स्वतन्त्रचिन्तनस्य प्रोत्साहनं कुर्वन्तः तेषु जिज्ञासाभावस्य विकासम् अपि कुर्युः।
उल्लेखनीयं यत् १८८८ तमस्य वर्षस्य सितम्बर-मासस्य ५ दिनाङ्के जन्म प्राप्तवता डॉ. राधाकृष्णनेन सह १९६२ तमे वर्षे कतिपयैः छात्रैः मित्रैश्च तस्य जन्मदिवसस्य आयोजनस्य इच्छा प्रकटिता। तदा तेन उक्तं यत् तस्य जन्मदिवसस्य पृथक् रूपेण उत्सवस्य आयोजनस्य स्थाने यदि सितम्बर-मासस्य ५ दिनाङ्कः शिक्षकदिवसत्वेन आचर्येत, तर्हि तत् तस्य कृते अधिकं गौरवस्य विषयः भविष्यति। ततः १९६२ तमस्य वर्षस्य सितम्बर-मासस्य ५ दिनाङ्कात् देशे सर्वत्र शिक्षकदिवसः आचरितुं प्रारब्धः।
डॉ. राधाकृष्णनः १९६२ तमस्य वर्षात् १९६७ तमस्य वर्षपर्यन्तं राष्ट्रपतिपदे आसीत्। तद्पूर्वं १९५२ तमस्य वर्षात् १९६२ तमस्य वर्षपर्यन्तं सः उपराष्ट्रपतिपदे आसीत्।
Hindusthan Samachar / Divya Ranjan