Enter your Email Address to subscribe to our newsletters


नवदिल्ली, ०४ सेप्टेम्बरमासः (हि.स.)। पञ्जाबस्य सुनाम-विधानसभाक्षेत्रस्य शेरों-ग्रामे मुख्यमन्त्रिणः कार्यक्रमे कृष्णध्वजं प्रदर्शितवतः एकस्य सिक्ख-युवकस्य आरक्षक-अभिरक्षायां बर्बरता-पूर्णव्यवहारस्य गम्भीराः आरोपाः समुत्थिताः सन्ति। भाजपायाः मुख्यालय-प्रभारी राज्यसभासदस्यश्च तरुणचुगः शुक्रवासरे राष्ट्रिय-मानवाधिकारायोगस्य सदस्याय प्रियंक-कानूनगो-महोदयाय पत्रं लिखित्वा प्रकरणे शीघ्रम् हस्तक्षेपस्य आग्रहं कृतवान्।
तरुणचुगः पत्रे उक्तवान् यत् सेप्टेम्बर-मासस्य २ दिनाङ्के मुख्यमन्त्रिणः भगवन्तमानस्य ‘लोक-मिलनी’ कार्य-क्रमस्य समये स्थानीययुवकः मोहनजीतसिंहः मादकद्रव्यसमस्यां प्रति शान्तिपूर्णविरोधस्य रूपेण कृष्णध्वजं प्रदर्शितवान्। ततः पञ्जाब-आरक्षकविभागेन सः अभिरक्षायां गृहीतः तथा च तस्य उपरि यातना कृता। तेन उक्तं यत् अभिरक्षायां युवकः मोहनजीतसिंहः मारितः, तस्य धार्मिकभावनानां च अवमानना कृता तथा तस्य परिवारस्य महिलाभिः सह दुर्व्यवहारः कृतः।
पत्रानुसारं पीडितयुवके यातनां क्रियमाणे सति तेन सह वीडियो-कॉल-माध्यमेन सम्पर्कः कृतः। सांसदः चुगः राष्ट्रिय-मानवाधिकारायोगात् अस्य प्रकरणस्य स्वतःसंज्ञानं स्वीकर्तुं आग्रहं कृतवान्। तेन प्रकरणस्य स्वतन्त्रान्वेषणाय दलं प्रेषयितुम् अपि आग्रहः कृतः।
Hindusthan Samachar / Divya Ranjan