विश्वहिंदूपरिषदः स्थापना दिवसे केंद्रीय मंत्रिणो मुख्यमंत्रिणश्चाददुश्शुभकामनाः
नव दिल्ली, 04 सितंबरमासः (हि.स.)। विश्वहिन्दुपरिषदः (विहिप्) संस्थापनादिवसस्य अवसरे केन्द्रीयमन्त्रिभिः विभिन्नराज्यानां मुख्यमन्त्रिभिश्च सङ्घटनस्य कार्यकर्तृभ्यः शुभकामनाः प्रदत्ताः। नेतृभिः सनातनसंस्कृतेः संरक्षणे, हिन्दूसमाजस्य एकतायां, सामाज
विश्व हिंदू परिषद (विहिप) (फाइल फोटो)।


नव दिल्ली, 04 सितंबरमासः (हि.स.)।

विश्वहिन्दुपरिषदः (विहिप्) संस्थापनादिवसस्य अवसरे केन्द्रीयमन्त्रिभिः विभिन्नराज्यानां मुख्यमन्त्रिभिश्च सङ्घटनस्य कार्यकर्तृभ्यः शुभकामनाः प्रदत्ताः। नेतृभिः सनातनसंस्कृतेः संरक्षणे, हिन्दूसमाजस्य एकतायां, सामाजिकसमरसतायां राष्ट्रसेवायां च विश्वहिन्दुपरिषदा क्रियमाणानां कार्याणां प्रशंसा कृता।

केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी विहिप्-संस्थापनादिवसस्य अवसरे सङ्घटनस्य समस्तेभ्यः कार्यकर्तृभ्यः अभिनन्दनानि शुभकामनाश्च प्रदत्तवान्। केन्द्रीयमन्त्री अर्जुनराममेघवालेन संस्कृतश्लोकस्य “धर्मो रक्षति रक्षितः” इत्यस्य उल्लेखं कुर्वता उक्तं यत् सनातनसंस्कृतेः, हिन्दुधर्मस्य, राष्ट्रियगौरवस्य सामाजिकसमरसतायाः च साधनायां संलग्नस्य विश्वस्य बृहत्तमस्य हिन्दुसङ्घटनस्य विश्वहिन्दुपरिषदः संस्थापनादिवसस्य अवसरे सर्वेभ्यः शुभकामनाः।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् हिन्दूएकतायाः सङ्कल्पाय, सनातनसंस्कृतेः संरक्षणाय राष्ट्रजागरणस्य पुण्यध्येयाय च समर्पितस्य विश्वहिन्दुपरिषदः संस्थापनादिवसस्य अवसरे सर्वेभ्यः कार्यकर्तृभ्यः सनातनसाधकेभ्यश्च अभिनन्दनानि शुभकामनाश्च। तेन उक्तं यत् सङ्गठितस्य समतामूलकस्य च हिन्दुसमाजस्य निर्माणे, सशक्तराष्ट्रस्य सनातनमूल्यानां च संवर्धने विहिपः अविरतसाधना सर्वेषां कृते प्रेरणापुञ्जम् अस्ति।

दिल्लीमुख्यमन्त्री रेखागुप्ता विहिप्-संस्थापनादिवसस्य अवसरे राष्ट्रसेवायां समर्पितेभ्यः सर्वेभ्यः कार्यकर्तृभ्यः शुभकामनाः प्रदत्तवती। तया उक्तं यत् हिन्दुसमाजे आत्मबोधस्य, एकात्मतायाः स्वाभिमानस्य च भावस्य जागरणम्, सनातनसंस्कृतेः जीवन्तपरम्पराणां सुदृढीकरणं, सेवायाः राष्ट्रकार्यस्य माध्यमत्वेन उपयोगश्च विहिपः मूलप्रेरणा अस्ति। तया सङ्घटनस्य कार्यकर्तॄणां तपः, त्यागः समर्पणं च प्रेरणादायकम् इति कथितम्।

उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी उक्तवान् यत् सनातनसंस्कृतेः, सेवायाः समाजहितस्य च कृते निरन्तरं कार्यरतस्य विश्वहिन्दुपरिषदः संस्थापनादिवसस्य अवसरे सर्वेभ्यः कार्यकर्तृभ्यः शुभकामनाः। तेन उक्तं यत् विहिप्-सङ्घटनेन सेवायाः, संस्कारस्य सामाजिकैकतायाश्च क्षेत्रे महत्त्वपूर्णां भूमिकां निर्वहता समाजं जागरितं सङ्गठितं च कर्तुं निरन्तरं प्रयासः कृतः। परिषदः कार्याणि समाजे सकारात्मकपरिवर्तनं आनेतुं दिशि महत्त्वपूर्णानि सन्ति।

मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः राष्ट्रसेवायै, भारतीयसंस्काराय सनातनसंस्कृतेः संरक्षणाय च समर्पितस्य विश्वहिन्दुपरिषदः संस्थापनादिवसस्य शुभकामनाः प्रदत्तवान्। तेन उक्तं यत् समाजसेवायां, समरसतायां सांस्कृतिकचेतनायाः जागरणे च सङ्घटनस्य भूमिका प्रशंसनीया अस्ति। तेन “मम दीक्षा हिन्दूरक्षा, मम मन्त्रः समानता” इत्यस्य भावेन धर्मस्य, संस्कृतेः राष्ट्रसेवायाश्च सङ्कल्पः निरन्तरं अग्रे वर्धेत इति मङ्गलकामना कृता।

राजस्थानस्य मुख्यमन्त्री भजनलालशर्मा विश्वहिन्दुपरिषदः संस्थापनादिवसस्य अवसरे सङ्घटनस्य सर्वेभ्यः कर्मठेभ्यः कार्यकर्तृभ्यः शुभकामनाः प्रदत्तवान्। तेन उक्तं यत् भारतीयसंस्कृतेः, सनातनजीवनमूल्यानां संरक्षणाय राष्ट्रसेवायै च सङ्घटनस्य समर्पणं सदैव वन्दनीयं प्रेरणादायकं च अभवत्।

---------------

Hindusthan Samachar / Dheeraj Maithani