श्रीकृष्णस्य शिक्षाःअस्मभ्यं संगठनसंवादयोः महत्वं बोधयन्ति : पंकज चौधरी
लखनऊ, 04 सितंबरमासः (हि.स.)। केन्द्रीयवित्तराज्यमन्त्री तथा भारतीयजनतापार्टी-उत्तरप्रदेशस्य अध्यक्षः पङ्कजचौधरी प्रदेशवासिभ्यः श्रीकृष्णजन्माष्टम्याः शुभकामनाः अयच्छत्। भाजपायाः प्रदेशाध्यक्षः शुक्रवासरे एकं दृक्श्राव्यम् प्रकाशितवान्। सः अवदत् य
भारतीय जनता पार्टी के प्रदेश अध्यक्ष पंकज चौधरी


लखनऊ, 04 सितंबरमासः (हि.स.)।

केन्द्रीयवित्तराज्यमन्त्री तथा भारतीयजनतापार्टी-उत्तरप्रदेशस्य अध्यक्षः पङ्कजचौधरी प्रदेशवासिभ्यः श्रीकृष्णजन्माष्टम्याः शुभकामनाः अयच्छत्। भाजपायाः प्रदेशाध्यक्षः शुक्रवासरे एकं दृक्श्राव्यम् प्रकाशितवान्। सः अवदत् यत् श्रीकृष्णस्य शिक्षाः अस्मान् सङ्गठनस्य संवादस्य च महत्त्वमपि बोधयन्ति।

प्रदेशभाजपाध्यक्षः पङ्कजचौधरी अवदत् यत् अस्माभिः समाजस्य मध्ये गत्वा जनैः सह संवादः करणीयः। तेषां समस्याः अवगन्तव्याः, तेषाम् अपेक्षाः श्रोतव्याः तथा सेवामाध्यमेन तेषां विश्वासः दृढीकर्तव्यः। भवतां परिश्रमः भवतां सेवैव सङ्गठनस्य सर्वाधिकं शक्तिस्रोतः अस्ति। भाजपायाः प्रदेशाध्यक्षः अवदत् यत् श्रीकृष्णस्य जीवनम् अस्मान् शिक्षयति यत् परिस्थितयः कीदृश्यः अपि भवन्तु, सत्यस्य कर्मणश्च मार्गः कदापि न त्यक्तव्यः। तस्य सन्देशं स्वजीवने आचरितुं सः अस्मान् प्रेरणां ददाति।

तदतिरिक्तं उपमुख्यमन्त्री केशवप्रसादमौर्यः, उपमुख्यमन्त्री ब्रजेशपाठकः तथा भाजपायाः प्रदेशमहामन्त्री सङ्गठनं धर्मपालसिंहश्च दलस्य कार्यकर्तृभ्यः प्रदेशवासिभ्यश्च श्रीकृष्णजन्माष्टम्याः शुभकामनाः अयच्छन्।

उपमुख्यमन्त्री केशवप्रसादमौर्यः श्रीकृष्णजन्माष्टम्याः शुभकामनाः प्रदाय स्वसामाजिकमाध्यमसन्देशे लिखितवान् यत् भगवान् श्रीकृष्णस्य जीवनम् अस्मान् धर्मस्य मार्गे दृढतया स्थातुं, कर्मणः सर्वोच्चं महत्त्वं स्वीकर्तुं तथा सत्यस्य कृते सदैव सङ्घर्षं कर्तुं प्रेरयति। श्रीमद्भगवद्गीतायां तस्य दिव्योपदेशाः अद्यापि मानवजीवनाय सम्यक् दिशां प्रददति। भगवान् श्रीकृष्णस्य कृपया सर्वेषां जीवने सुखस्य, शान्तेः, प्रेम्णः समृद्धेश्च सञ्चारः भवतु तथा अस्माकं समाजः धर्मस्य, संस्कारस्य मानवतामूल्यानां च सह निरन्तरम् अग्रे वर्धताम्, इति मङ्गलकामना।

Hindusthan Samachar / Dheeraj Maithani