जलप्लावनेन प्रभावितानां सहयोगाय योगीसर्वकारस्य रक्षणतंत्रं सन्नद्धं, 544उत्तर 17 सहस्रं जनाः सुरक्षित स्थानेषु प्रापिताः
लखनऊ, 04 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य अनेकेषु जनपदेषु जलप्लावनस्य स्थितिः वर्तते। मुख्यमन्त्रिणः योगी आदित्यनाथस्य निर्देशानुसारं राहत-उद्धाराभियानं निरन्तरं युद्धस्तरेण प्रचलति। उत्तरप्रदेशस्य बाढ-राहत-आयुक्तकार्यालयस्य अनुसारं प्रदेशस्य षड्
मुख्यमंत्री योगी आदित्यनाथ


लखनऊ, 04 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य अनेकेषु जनपदेषु जलप्लावनस्य स्थितिः वर्तते। मुख्यमन्त्रिणः योगी आदित्यनाथस्य निर्देशानुसारं राहत-उद्धाराभियानं निरन्तरं युद्धस्तरेण प्रचलति। उत्तरप्रदेशस्य बाढ-राहत-आयुक्तकार्यालयस्य अनुसारं प्रदेशस्य षड्विंशतिः जनपदानि जलप्लावनेन प्रभावितानि अभवन्। प्रायः त्रिलक्षपञ्चाशत्सहस्राधिकत्रिशतसहस्रं जनसंख्या प्रभाविताभवदपि राहत-उद्धारतन्त्रस्य सक्रियतया अद्यावधि न काचिदपि जनहानिः पशुहानिश्च अभिलिखिता अस्ति। प्रभावितेभ्यः द्विसप्ततिसहस्राष्टशतसप्तनवतिः बाढराहत-सामग्रीपुटकानि त्रिलक्षषट्सप्ततिसहस्राधिकानि भोजनपुटकानि च वितरितानि सन्ति।

प्रभावितान् जनान् सुरक्षितस्थलेषु प्रापयित्वा तेषां कृते भोजनं, राहतसामग्रीः स्वास्थ्यसुविधाश्च उपलब्ध्यन्ते। अद्यावधि सप्तदशसहस्रपञ्चशतचतुश्चत्वारिंशत् जनाः सुरक्षितस्थलेषु प्रापिताः सन्ति। अधुना प्रायः पञ्चसहस्रं जनाः बाढ-शरणालयेषु निवसन्ति। प्रदेशे समग्रतया एकसहस्रत्रिशतद्वादश बाढ-शरणालयानि स्थापितानि सन्ति।

राहत-उद्धाराभियानं प्रभावी कर्तुं एकसहस्रषट्शतचतुस्त्रिंशत् बाढ-चौक्यः, एकसहस्रषट्शतसप्तनवतिः नौकाः मोटरनौकाश्च तथा एकसहस्राष्टषष्टिः चिकित्सादलानि सक्रियाणि सन्ति। एतेन प्रभावितक्षेत्रेषु निरन्तरं निरीक्षणं क्रियते तथा आवश्यकताग्रस्तेभ्यः जनेभ्यः तत्कालं सहायता प्राप्यते।

प्रदेशसर्वकारस्य प्रवक्तुः कथनमस्ति यत् योगीसर्वकारस्य राहताभियाने प्रभावितपरिवाराणां कृते भोजनस्य आवश्यकसामग्रीणां च प्रेषणे विशेषः बलः दीयते। अद्यावधि द्विसप्ततिसहस्राष्टशतसप्तनवतिः बाढराहत-अन्नपुटकानि तथा त्रिलक्षसप्तषष्टिसहस्रपञ्चशतैकपञ्चाशत् भोजनपुटकानि वितरितानि सन्ति। तदतिरिक्तं पशूनां कृते पञ्चसहस्रक्विण्टलाधिकं तृणं वितरितम् अस्ति। स्वास्थ्यसुरक्षायाः अन्तर्गतं पञ्चलक्षद्विपञ्चाशत्सहस्राधिकाः क्लोरीनगोलिकाः तथा एकलक्षसप्ताशीतिसहस्राधिकानि ओआरएस-पुटकानि अपि वितरितानि सन्ति। बाढ्या पञ्चचत्वारिंशत्सहस्राधिकाः पशवः प्रभाविताः सन्ति, किन्तु अद्यावधि कस्यापि पशोः मृत्योः सूचना न प्राप्ता। तथैव जनहानेरपि कापि सूचना न प्राप्ता।

बाढप्रभावितानि जनपदाः— अमरोहा, अयोध्या, आजमगढं, बदायूँः, बलिया, बाराबङ्की, बस्ती, चन्दौली, फर्रुखाबादं, गाजीपुरं, गोण्डा, गोरखपुरं, हरदोई, कासगञ्जः, कानपुरं, लखीमपुरखीरी, मिर्जापुरं, मुरादाबादं, पीलीभीतं, प्रयागराजः, रायबरेली, रामपुरं, सन्तकबीरनगरं, शाहजहाँपुरं, उन्नावः वाराणसी च ।

Hindusthan Samachar / Dheeraj Maithani