Enter your Email Address to subscribe to our newsletters

अयोध्या, ४ सितम्बरमासः (हि.स.)। अयोध्यायाः श्रीरामजन्मभूमितीर्थक्षेत्रस्य अध्यक्षः तथा श्रीमणिरामदास-छावनीमन्दिरस्य महन्तः नृत्यगोपालदासः विश्वासं प्रकटयन् उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी तथा उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः इत्यनयोः नेतृत्वे मथुरायां श्रीकृष्णजन्मभूमिस्थले भव्यस्य मन्दिरस्य निर्माणस्य मार्गः प्रशस्तो भविष्यति।
महन्तः नृत्यगोपालदासः विगतेभ्यः अनेकवर्षेभ्यः निरन्तरं श्रीकृष्ण-जन्माष्टम्यां मथुरायां श्रीकृष्णजन्मभूमौ उपस्थितः भूत्वा कृष्णलालस्य अभिषेकं कुर्वन् अस्ति। अस्मिन् वर्षे सः मथुरां गन्तुं न शक्नवान्। स्वास्थ्यकारणात् तेन मथुरागमनस्य कार्यक्रमः स्थगितः कृतः। स्वास्थ्यं सम्यक् न भवति इति कारणेन सः स्वाश्रमे विश्रामं कुर्वन् अस्ति। मथुरां गन्तुं न शक्नोति इति विषये तेन खेदः अपि प्रकटितः।
श्रीरामजन्मभूमितीर्थक्षेत्रस्य अध्यक्षः तथा श्रीमणिरामदासछावणीमन्दिरस्य महन्तः नृत्यगोपालदासः पत्रं लिखित्वा श्रीकृष्णजन्मभूमिमन्दिरनिर्माणे कारसेवां कर्तुं स्वेच्छां प्रकटितवान्। पत्रे तेन लिखितम् अस्ति यत् यदि अखिलभारतीय-अखाडापरिषदः नेतृत्वे साधुसन्ताः कारसेवां करिष्यन्ति, तर्हि सः अपि तेषां कार्ये सहभागी भविष्यति। तस्य विश्वासः अस्ति यत् प्रधानमन्त्री नरेन्द्रमोदी तथा मुख्यमन्त्री योगी आदित्यनाथः इत्यनयोः नेतृत्वे मथुरायां श्रीकृष्णजन्मभूमिस्थले मन्दिरनिर्माणस्य मार्गः प्रशस्तो भविष्यति।
Hindusthan Samachar / Divya Ranjan