Enter your Email Address to subscribe to our newsletters


देहरादूनम्, 04 सितंबरमासः (हि.स.)।
श्रीकृष्णजन्माष्टम्याः अवसरे शुक्रवासरे उत्तराखण्डप्रदेशे श्रद्धायाः उल्लासस्य च वातावरणं वर्तते। मन्दिरेषु विशेषपूजाअर्चनं, भजनकीर्तनं धार्मिककार्यक्रमाश्च आयोज्यन्ते। श्रद्धालवः भगवान् श्रीकृष्णस्य जन्मोत्सवस्य कृते मन्दिरेषु समागच्छन्ति।
अस्मिन् अवसरे राज्यपालः लेफ्टिनेण्ट् जनरल् गुरमीतसिंहः सेवानिवृत्तः तथा मुख्यमन्त्री पुष्करसिंहधामी प्रदेशवासिभ्यः जन्माष्टम्याः बधाईशुभकामनाश्च अयच्छताम्। राज्यपालः मुख्यमन्त्री च प्रदेशे शान्तेः, सौहार्दस्य, समृद्धेः सुखस्य च कामनां कृतवन्तौ।
राज्यपालः स्वसन्देशे अवदत् यत् भगवान् श्रीकृष्णस्य जीवनं तस्य उपदेशाश्च सत्यस्य न्यायस्य धर्मस्य च मार्गे चलितुं प्रेरणां ददति। तस्य जीवनं कर्तव्यनिष्ठायाः, सद्भावस्य मानवतायाश्च सन्देशं ददाति। सः आशां व्यक्तवान् यत् जन्माष्टम्याः पावनं पर्व सर्वेषां जीवने प्रेम्णः, शान्तेः सद्भावस्य च सञ्चारं करिष्यति।
मुख्यमन्त्री धामी अवदत् यत् भगवान् श्रीकृष्णः मानवतायाः सच्चः संरक्षकः, मार्गदर्शकः जीवनदर्शनस्य च प्रेरणास्रोतः अस्ति। तस्य सम्पूर्णं जीवनं सत्यस्य न्यायस्य च मार्गे चलितुं प्रेरणां ददाति। सः अवदत् यत् श्रीकृष्णस्य जीवनं प्रेम, त्याग, सेवा, करुणा, सद्भाव समरसता च इत्यादीन् मूल्यान् आत्मसात्कर्तुं सन्देशं ददाति।
मुख्यमन्त्री अवदत् यत् श्रीमद्भगवद्गीतायां भगवान् श्रीकृष्णस्य निष्कामकर्मणः सन्देशः अद्यापि प्रासङ्गिकः अस्ति। सः प्रदेशवासिभ्यः भगवान् श्रीकृष्णस्य जीवनात् शिक्षाभ्यश्च प्रेरणां गृहीत्वा समाजे प्रेम्णः, भ्रातृत्वस्य समरसतायाश्च भावनां वर्धयितुं तथा प्रदेशस्य विकासे भागिनो भवितुं आह्वानं कृतवान्।
----
Hindusthan Samachar / Dheeraj Maithani