Enter your Email Address to subscribe to our newsletters

— १४७ कोटि ०५ लक्षरूप्यकाणां पेन्शनराशिः लाभार्थिनां धनागारेषु प्रेषिता
देहरादूनम्, ०४ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्रिणा पुष्करसिंहधामिना शुक्रवासरे मुख्यमन्त्रिणः शिविरकार्यालये समाजकल्याणविभागस्य विभिन्नानां सामाजिकसुरक्षापेन्शनयोजनानाम् अन्तर्गतं अगस्त-मासस्य २०२६ तमस्य वर्षस्य पेन्शन-किस्तस्य एक-क्लिक्-माध्यमेन भुगतानं कृतम्। अनेन ९ लक्षं ९१ सहस्रं ९१४ लाभार्थिनां धनागारेषु १४७ कोटि: ०५ लक्षरूप्यकाणां पेन्शनराशिः प्रेषिता। अगस्तमासे विभिन्नानां पेन्शनयोजनानाम् अन्तर्गतं ५,६०५ नूतनलाभार्थिनां पेन्शन इत्यपि स्वीकृता।
मुख्यमन्त्रिणा उक्तं यत् समाजस्य दुर्बलानां, आवश्यकताग्रस्तानां वञ्चितवर्गाणां च सामाजिकसुरक्षा प्रदातुं राज्यसर्वकारस्य प्राथमिकता अस्ति। प्रत्येकं पात्रव्यक्तिं सामाजिकसुरक्षा-योजनानां लाभः सरलतया समयबद्धतया च प्राप्नुयात् इति सर्वकारस्य प्रयासः अस्ति। तेन अधिकारिभ्यः निर्देशः दत्तः यत् पेन्शनयोजनानां कार्यान्वयने उत्पद्य-मानानां व्यावहारिकसमस्यानां संवेदन-शीलतया समाधानं क्रियताम्।
मुख्यमन्त्रिणा उक्तं यत् राज्यसर्वकारः सामाजिकसुरक्षापेन्शनयोजनानां माध्यमेन पात्रलाभार्थिभ्यः नियमितरूपेण पेन्शनराशिं प्रददाति। तेन उक्तं यत् पेन्शनव्यवस्थां सरलां पारदर्शिनीं लाभार्थिकेन्द्रितां च कृत्वा प्रत्येकं पात्रव्यक्तिं योजनाभिः आच्छादयितुं निरन्तरं कार्यं करणीयम्। मुख्यमन्त्रिणा निर्देशः दत्तः यत् येषां पात्रलाभार्थिनां कस्यचित् कारणात् आधारपत्रं निर्मातुं न शक्यते, तान् चिह्नीकृत्य तेषां कृते खाताधारितप्रदानस्य व्यवस्थां क्रियताम्, येन आधारसम्बन्धितायाः समस्यायाः कारणेन कोऽपि पात्रलाभार्थी पेन्शन-लाभात् वञ्चितः न भवेत्।
प्रस्तुतीकरणस्य समये उक्तं यत् अगस्त-मासे २०२६ तमे वर्षे वृद्धावस्थापेन्शन, विधवापेन्शन, दिव्याङ्गपेन्शन, कृषकपेन्शन, परित्यक्तापेन्शन, भरण-पोषणानुदान, तीलू-रौतेली तथा वामनपेन्शनयोजनानां कुलं ९ लक्ष ९१ सहस्र ९१४ लाभार्थिनां कृते १४७ कोटि ०५ लक्ष ५१ सहस्ररूप्यकाणां धनराशिः निर्धारितास्ति। कुलपेन्शनलाभार्थिषु २ लक्ष १४ सहस्र ७११ लाभार्थिनः राष्ट्रियसामाजिकसहायताकार्यक्रमस्य अन्तर्गतं तथा ७ लक्षं ७७ सहस्रं २०३ लाभार्थिनः राज्यस्तरे आच्छादिताः सन्ति। अगस्तमासस्य पेन्शनभुगताने प्रायः १४० कोटि ११ लक्षरूप्यकाणि राज्यांशरूपेण तथा ६ कोटि ९४ लक्षरूप्यकाणि केन्द्रांशरूपेण सन्ति।
प्रस्तुतीकरणे उक्तं यत् अगस्तमासे विभिन्नासु सामाजिकसुरक्षापेन्शन-योजनासु ५,६०५ नूतनपेन्शन स्वीकृताः। एतेषु वृद्धावस्थापेन्शनस्य ३,९४५, विधवापेन्शनस्य १,०००, दिव्याङ्ग-पेन्शनस्य ४१६, कृषकपेन्शनस्य १०६, परित्यक्तापेन्शनस्य २३ तथा भरणपोषणा-नुदानस्य ११५ लाभार्थिनः सम्मिलिताः सन्ति।
सभायाम् अग्रिमकार्यक्रमाणां सम्बन्धे अपि प्रस्तुतीकरणं दत्तम्। उक्तं यत् भारतसर्वकारस्य सामाजिकन्यायाधि-कारिताविभागेन २०२६ तमस्य वर्षस्य सेप्टेम्बर-मासस्य १८ तथा १९ दिनाङ्कयोः नवदिल्ली इत्यत्र जनपथे स्थिते डॉ. अम्बेडकर-अन्तरराष्ट्रीयकेन्द्रे द्विदिवसीयं राष्ट्रियविभागीयं शिखर-सम्मेलनं प्रस्तावितम् अस्ति। सम्मेलने सामाजिक-न्यायाधिकारिता-सम्बद्धानां प्रमुख-प्राथमिकतानां विषये केन्द्रस्य, राज्यस्य केन्द्रशासितप्रदेशानां च मध्ये संवादः भविष्यति।
अस्मिन् अवसरे समाजकल्याणमन्त्री खजानदासः, समाजकल्याणविभागस्य सचिवः डॉ. श्रीधरबाबू-अद्दांकी, अपर-सचिवः विक्रमयादवः, संयुक्तसचिवः धीरेन्द्रसिंहः, संयुक्तनिदेशकः गीताराम-नौटियालः, सहायकनिदेशिका हेमलता-पाण्डेयः अन्ये च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan