इण्डिया-सेमिकण्डक्टर-मिशन-२.० इत्यस्य संकल्पस्य पूर्तौ मध्यप्रदेशः अग्रणीं भूमिकां निर्वक्ष्यति - मोहनयादवः
– इन्दौरे २३-२४ अक्टोबर-दिनाङ्कयोः भविष्यति “मध्यप्रदेश-सेमिकण्डक्टर-शिखरसम्मेलनम्-२०२६”, अभियान-पट्टिकायाः विमोचनम् भोपालम्, ४ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी ‘इण्डिया-सेमिकण्ड
मुख्यमंत्री डॉ. मोहन यादव ने एमपी सेमीकंडक्टर समिट के कैम्पेन पोस्टर का किया विमोचन


– इन्दौरे २३-२४ अक्टोबर-दिनाङ्कयोः भविष्यति “मध्यप्रदेश-सेमिकण्डक्टर-शिखरसम्मेलनम्-२०२६”, अभियान-पट्टिकायाः विमोचनम्

भोपालम्, ४ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी ‘इण्डिया-सेमिकण्डक्टर-मिशन-२.०’ इत्यस्य माध्यमेन देशं अस्मिन् क्षेत्रे सशक्तं कर्तुं संकल्पं कृतवान् अस्ति। प्रधानमन्त्री-मोदिनः अस्य संकल्पस्य साकाररूपेण परिणमने मध्यप्रदेशः स्वस्य अग्रणीं भूमिकां निर्वोढुं सज्जः अस्ति।

मुख्यमन्त्री डॉ. यादवः शुक्रवासरे राजधानी-भोपालस्य मुख्यमन्त्रि-निवासस्थे समत्वभवने विज्ञान-प्रौद्योगिकी-विभागेन अग्रिमयोः २३-२४ अक्टोबर-दिनाङ्कयोः इन्दौरे आयोज्यमानस्य “मध्यप्रदेश-सेमि-कण्डक्टर-शिखरसम्मेलनम्-२०२६” इत्यस्य अभियान-पट्टिकायाः विमोचन-समारोहे सम्बोधनं कुर्वन् आसीत्। अस्मिन् अवसरे नवीन-नवीकरणीय-ऊर्जामन्त्री राकेशशुक्लः, जन-अभियान-परिषदः उपाध्यक्षः डॉ. मोहननागरः, विज्ञान-प्रौद्योगिकी-विभागस्य प्रमुखसचिवः एम. सेल्वेन्द्रम् इत्यादयः अन्ये अधिकारिणश्च उपस्थिताः आसन्।सः उक्तवान् यत् प्रदेशे सेमिकण्डक्टर, दत्तांशकेन्द्रम् इत्यादीनाम् आधुनिक-विज्ञानसम्बद्धानां बहूनां परियोजनानां विषये उत्कृष्टं कार्यं प्रचलति। अस्मिन् क्षेत्रे प्रदेशस्य युवभ्यः रोजगारस्य अवसरान् प्रदातुं राज्यसर्वकारः अग्रे सरति। एकः कालः आसीत् यदा चिप-निर्माणस्य दिशि कोऽपि चिन्तयितुम् अपि न शक्नोति स्म। अधुना मध्यप्रदेशेन अस्यां दिशि पदक्षेपं कर्तुं दृढाः निर्णयाः स्वीकृताः सन्ति।

मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः अग्रिममासे २३-२४ अक्टोबर-दिनाङ्कयोः इन्दौरे “मध्यप्रदेश-सेमिकण्डक्टर-शिखर-सम्मेलनम्-२०२६” आयोजयिष्यति। सः अस्मिन् वैश्विके शिखरसम्मेलने सम्मिलितुं आगच्छद्भ्यः सर्वेभ्यः निवेशकेभ्यः, प्राविधिकविशेषज्ञेभ्यः, नवोद्यमेभ्यः, शिक्षाविद्भ्यः नीतिनिर्धारके-भ्यश्च मध्यप्रदेशस्य भूमौ स्वागतं कुर्वन् तान् आमन्त्रितवान्। सः सर्वेषां देशवासिनां प्रदेशवासिनां च ऐक्येन सेमिकण्डक्टर-निर्माणे आत्मनिर्भरत्वस्य स्वप्नं साकारं कर्तुं तथा २०४७ तमस्य वर्षस्य समृद्धमध्यप्रदेशस्य विकसितभारतस्य च यात्रायां सहभागी भवितुम् आह्वानं कृतवान्।

सः उक्तवान् यत् राज्यसर्वकारेण विगतेषु सार्धद्विवर्षेषु सर्वेषु क्षेत्रेषु उद्योग-व्यापारानुकूलं वातावरणं निर्मातुं २५ नवीनाः नीतयः प्रवर्तिताः सन्ति। एताभिः नीतिभिः सरलीकृत-पारदर्शक-वचन-बद्धतापूर्णरीत्या कार्यं कर्तुं अवसरः प्राप्तः। सः उक्तवान् यत् मध्यप्रदेशः देशे सर्वाधिकं रोजगारावसरान् प्रदायमानः, बेरोजगारीदरं न्यूनतमस्तरं प्रति नयन् तथा देश-विदेशेभ्यः आगच्छतां निवेशकानां हृदयं विश्वासं च जितवान् राज्यरूपेण परिणतः अस्ति।

Hindusthan Samachar / Divya Ranjan