महानायकस्य उत्तम कुमारस्य जन्मशताब्द्यां श्रद्धांजलिवाग्, शुभेंदु अधिकारी अकरोत् नेतृत्वम्
कोलकाता, 4 सितंबरमासः (हि.स.)। बाङ्गलचलच्चित्रजगतः दिग्गज-अभिनेता महानायक-उत्तमकुमारस्य जन्मशताब्द्यवसरे गुरुवासरे कोलकातानगरे आयोजिते विशेषे ‘श्रद्धाञ्जलियात्राकार्यक्रमे’ मुख्यमन्त्री शुभेन्दुअधिकारी नेतृत्वम् अकरोत्। रविन्द्रसदनात् प्रारब्धाया
शुभेंदु अधिकारी


कोलकाता, 4 सितंबरमासः (हि.स.)।

बाङ्गलचलच्चित्रजगतः दिग्गज-अभिनेता महानायक-उत्तमकुमारस्य जन्मशताब्द्यवसरे गुरुवासरे कोलकातानगरे आयोजिते विशेषे ‘श्रद्धाञ्जलियात्राकार्यक्रमे’ मुख्यमन्त्री शुभेन्दुअधिकारी नेतृत्वम् अकरोत्। रविन्द्रसदनात् प्रारब्धायां यात्रायां बाङ्गलचलच्चित्रजगतः वरिष्ठैः युवा-अभिनेतृभिः, तकनीकिकर्मिभिः तथा चलचित्रोद्योगसम्बद्धैः प्रतिनिधिभिः सहभागः कृतः। सर्वे महानायकस्य अमरां विरासतं बाङ्गलचलच्चित्रे च तस्य योगदानं स्मृत्वा तस्मै श्रद्धाञ्जलिं समर्पितवन्तः।

अस्मिन् अवसरे मुख्यमन्त्रिणा महानायक-उत्तमकुमारस्य जीवनं चलचित्रयात्रां च आधारीकृत्य विशेषप्रदर्शनी अपि उद्घाटिता। अनन्तरम् एकतारा-मुक्तमञ्चे जन्मशताब्दीसमारोहः आयोजितः, यत्र केकं छित्त्वा तथा पायसं परिवेष्य महानायकस्य स्मरणं कृतम्।

जन्मशताब्द्यवसरे कोलकातानगरे आयोजितानां कार्यक्रमाणां अन्तर्गतं चलचित्रप्रदर्शनं, प्रदर्शनी तथा उत्तमकुमारस्य जीवनसम्बद्धस्थानानां धरोहरयात्रा अपि आयोज्यते। राज्यसर्वकारस्य पक्षतः न्यूटाउन्-नगरे ‘उत्तमकुमार-चलचित्रकेन्द्रस्य’ स्थापनायै पहलः अपि कृतः अस्ति। तदतिरिक्तं महानायकस्य स्मृतौ विशालस्य सांस्कृतिकपरिसरस्य निर्माणस्य योजना अपि प्रस्तुतिता अस्ति।

कार्यक्रमे बाङ्गलचलच्चित्रजगतः अनेकाः प्रमुखाः व्यक्तयः उपस्थिताः आसन्। महानायकस्य जन्मशताब्द्यवसरे कलाकाराणां चलचित्रकर्मिणां च सहभागितया अयं कार्यक्रमः विशेषतां प्राप्तवान्। उत्तमकुमारस्य चलचित्राणि तस्य योगदानं च नवसंततये प्रापयितुं विविधाः कार्यक्रमाः आयोज्यन्ते।

---------------

Hindusthan Samachar / Dheeraj Maithani