विश्वहिन्दुपरिषदः ६२तमस्थापनादिवसे शुभेन्दुअधिकारिणा शुभकामनाः प्रदत्ताः
हुगली, ४ सेप्टेम्बरमासः (हि.स.)। पश्चिमबङ्गालस्य मुख्यमन्त्री शुभेन्दु-अधिकारी शुक्रवासरे विश्व-हिन्दुपरिषदः ६२तमस्थापनादिवसस्य अवसरे सामाजिकमाध्यमे ‘एक्स’-इत्यत्र सन्देशं सम्प्रेष्य परिषदः सर्वेभ्यः कार्यकर्तृभ्यः, शुभचिन्तकेभ्यः सनातनिभ्यः भ्रातृ
शुभेंदु अधिकारी


हुगली, ४ सेप्टेम्बरमासः (हि.स.)। पश्चिमबङ्गालस्य मुख्यमन्त्री शुभेन्दु-अधिकारी शुक्रवासरे विश्व-हिन्दुपरिषदः ६२तमस्थापनादिवसस्य अवसरे सामाजिकमाध्यमे ‘एक्स’-इत्यत्र सन्देशं सम्प्रेष्य परिषदः सर्वेभ्यः कार्यकर्तृभ्यः, शुभचिन्तकेभ्यः सनातनिभ्यः भ्रातृ-भगिनीभ्यश्च हार्दिक्य: शुभकामनाः वर्धापनानि च प्रदत्तवान्।

स्वीयसन्देशस्य प्रारम्भं “धर्मो रक्षति रक्षितः” इत्यनेन कुर्वन् शुभेन्दुअधिकारी उक्तवान् यत् १९६४ तमे वर्षे श्रीकृष्णजन्माष्टम्याः पावने अवसरे सनातनसमाजं एकीकर्तुं, धर्मस्य संस्कृतेश्च रक्षणाय तथा मानवसेवायाः महानुद्देश्येन विश्वहिन्दुपरिषदः स्थापना अभवत्।

सः उक्तवान् यत् षड्दशकाधिककालात् विश्वहिन्दुपरिषद् भारतीयसभ्यतायाः, संस्कृतेः सनातनपरम्पराणां च ध्वजं विश्वपटलस्य उपरि पीडितानां वञ्चितानां च जनानां सेवायाम् अपि महत्त्वपूर्णं योगदानं ददाति।

शुभेन्दु-अधिकारी स्वीयसन्देशे श्रीराम-जन्मभूमिमुक्त्याः आन्दोलनात् आरभ्य समाजस्य अन्तिमजनं यावत् सेवां प्रापयितुं परिषदः समर्पितानां त्यागिनां च कार्यकर्तॄणां योगदानस्य उल्लेखं कृतवान्। सः उक्तवान् यत् कार्यकर्तॄणाम् अविचलः सङ्कल्पः निरन्तरं प्रेरणां ददाति।

विश्वहिन्दुपरिषदः स्थापनादिवसस्य अवसरे सः परिषदः सर्वेभ्यः कार्यकर्तृभ्यः शुभचिन्तकेभ्यश्च शुभकामनाः प्रदाय तेषां सेवां समर्पणं सङ्कल्पं च नत्वा सम्मानं प्रकटितवान्।

Hindusthan Samachar / Divya Ranjan