Enter your Email Address to subscribe to our newsletters


लखनऊ, 04 सितंबरमासः (हि.स.)।
राष्ट्रीयस्वयंसेवकसङ्घस्य वरिष्ठप्रचारकस्य स्वर्गीयवीरेश्वरद्विवेदिनः तृतीयपुण्यतिथेः अवसरे शुक्रवासरे लखनऊनगरस्य निरालानगरस्थिते शोधसंस्थाने स्मृतिसभायाः आयोजनं कृतम्। अस्मिन् अवसरे प्रदेशस्य उपमुख्यमन्त्री ब्रजेशपाठकः स्वर्गीयवीरेश्वरद्विवेदिना सम्बद्धान् स्वसंस्मरणान् साझीकृत्य उक्तवान् यत् तस्य प्रेरणा अद्यापि अस्माकं सर्वेषां मार्गदर्शनं करोति।
अस्मिन् अवसरे उपमुख्यमन्त्री घोषणां कुर्वन् उक्तवान् यत् शीघ्रमेव लखनऊ नगरे तस्य स्मृतौ कस्यचित् उद्यानस्य अथवा स्थलस्य नाम तस्य नाम्ना करणाय अहं संस्तुतिं करिष्यामि तथा च तस्य भव्यप्रतिमायाः अपि स्थापनं कारयिष्यामि।
अस्मिन् अवसरे मुख्यवक्तृरूपेण उपस्थितः राष्ट्रीयस्वयंसेवकसङ्घस्य अखिलभारतीयप्रचारकप्रमुखः स्वान्तरण्जनः उक्तवान् यत् राष्ट्रकार्याय, सङ्घकार्याय च यत्र यदा यादृशी आवश्यकता भवेत्, तत्र अत्यन्तकठिने क्षेत्रे गन्तुं सर्वदा सज्जता तथा च किमपि कार्यं स्वार्थाय न, केवलं भारतमातुः कृते जीवनं समर्पयितुं तत्परता वीरेश्वरद्विवेदिनः प्रवृत्तिः आसीत्।
स्वान्तरण्जनेन राष्ट्रधर्मपत्रिकायाः उल्लेखं कुर्वता उक्तं यत् अटलजी, दीनदयालोपाध्यायः, वचनेशत्रिपाठी इत्यादीनां गरिमामयपरम्परां वीरेश्वरद्विवेदी पूर्णमनसा दक्षतया च अग्रे नेतुं कार्यं कृतवान्।
पूर्वमन्त्री पूर्वसांसदश्च डा. अशोकवाजपेयी उक्तवान् यत् वीरेश्वरस्य विराट् व्यक्तित्वम् आसीत्। तस्मिन् सर्वान् स्वकीयान् कर्तुं क्षमता आसीत्। अस्मिन् अवसरे राष्ट्रीयस्वयंसेवकसङ्घस्य वरिष्ठप्रचारकः विद्याभारत्याः संरक्षकश्च पद्मब्रह्मदेवशर्मा ‘भाईजी’ इति वीरेश्वरद्विवेदिनः स्मृतौ सम्मानितः।
कार्यक्रमस्य अनन्तरं वृक्षारोपणं कृतम्। तत्र उपस्थितेभ्यः सर्वेभ्यः गीतायाः पुस्तिकाः तुलसीपादपाश्च वितरिताः। कार्यक्रमस्य सञ्चालनं शरद्जगदीशमिश्रेण कृतम्।
अस्मिन् अवसरे प्रमुखरूपेण विद्याभारत्याः राष्ट्रियसहसङ्घटनमन्त्री यतीन्द्रः, सङ्घस्य क्षेत्रप्रचारप्रमुखः सुभाषः, विद्याभारत्याः क्षेत्रसङ्घटनमन्त्री हेमचन्द्रः, अखिलभारतीयसाहित्यपरिषदः राष्ट्रियमहामन्त्री डा. पवनपुत्रबादलः, प्रान्तप्रचारकप्रमुखः यशोदानन्दः, सामाजिकसमरसतागतिविधेः प्रान्तप्रमुखः राजकिशोरः, भाजपायाः प्रदेशप्रवक्ता सञ्जयचौधरी, सङ्घस्य वरिष्ठकार्यकर्तारः चन्द्रप्रकाशाग्निहोत्री, उमाशङ्करमिश्रः, अर्जुनपण्डितः, अन्तिमाअवस्थी, नवीनअवस्थी, ज्योतिसिक्काअधिवक्ता, प्रदीपद्विवेदी इत्यादयः अनेकाः गणमान्यजनाः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani