Enter your Email Address to subscribe to our newsletters

पटना, 04 सितंबरमासः (हि.स.)।
मुख्यमन्त्री सम्राट् चौधरी श्रीकृष्णजन्माष्टमीपर्वणः पावनावसरे प्रदेशवासिभ्यः देशवासिभ्यश्च अभिनन्दनानि शुभकामनाश्च प्रदत्तवान्।
मुख्यमन्त्री स्वीयसन्देशे अवदत् यत् भारतीयसंस्कृतौ परम्परायां च पर्वणां उत्सवानां च दीर्घा शृङ्खला अस्ति, या अस्माकं सांस्कृतिकवैभवस्य विविधतायां एकतायाश्च प्रतीका अस्ति। सः अवदत् यत् प्रतिवर्षं भाद्रमासस्य कृष्णपक्षस्य अष्टमीतिथौ भगवान् श्रीकृष्णस्य जन्मोत्सवः जन्माष्टमीपर्वरूपेण महता धूमधामेन पारम्परिकरीतिरिवाजानुसारं च आचर्यते।
अस्मिन् अवसरे जनाः भगवान् श्रीकृष्णस्य आदर्शान् तस्य कर्मयोगसम्बद्धान् उपदेशांश्च आत्मसात्कर्तुं सङ्कल्पं कुर्वन्ति तथा च स्वस्य सुखस्य समृद्धेः सफलतायाश्च कामनां कुर्वन्ति। सः विश्वासं प्रकटितवान् यत् एतत् पर्व प्रदेशे सामाजिकसमरसतायाः प्रेम्णः उत्साहस्य च वातावरणं अधिकं सुदृढं करिष्यति तथा च बिहारः सुखी समृद्धः विकसितश्च प्रदेशः भविष्यति।
Hindusthan Samachar / Dheeraj Maithani