बदरीनाथ धाम्नि श्रद्धया उल्लासेन सह समाचरिता श्रीकृष्ण जन्माष्टमी
बदरीनाथ धाम, 04 सितंबरमासः (हि.स.)।श्रीबदरीनाथधाम्नि शुक्रवासरे श्रीकृष्णजन्माष्टमीपर्व श्रद्धाभक्तिपूर्वकम् उल्लासेन च आचर्यते। भगवान् श्रीकृष्णस्य जन्मोत्सवं प्रति धामम् आगतेषु श्रद्धालुषु तीर्थयात्रिषु च विशेषः उत्साहः वर्तते। श्रीबदरीनाथ-केदारन
बद्रीनाथ धाम


बदरीनाथ धाम, 04 सितंबरमासः (हि.स.)।श्रीबदरीनाथधाम्नि शुक्रवासरे श्रीकृष्णजन्माष्टमीपर्व श्रद्धाभक्तिपूर्वकम् उल्लासेन च आचर्यते। भगवान् श्रीकृष्णस्य जन्मोत्सवं प्रति धामम् आगतेषु श्रद्धालुषु तीर्थयात्रिषु च विशेषः उत्साहः वर्तते। श्रीबदरीनाथ-केदारनाथमन्दिरसमित्या पर्वणः कृते सर्वाः व्यवस्थाः पूर्णाः कृताः, मन्दिरं च भव्यरूपेण अलङ्कृतम् अस्ति।

जन्माष्टमीपर्वणः अवसरे श्रीबदरीनाथमन्दिरे समितेः उपाध्यक्षस्य ऋषिप्रसादसती-महोदयस्य मुख्यकार्याधिकारिणः सोहनसिंहराङ्गड-महोदयस्य च उपस्थितौ विशेषपूजाऽर्चनानि धार्मिकानुष्ठानानि च भविष्यन्ति। रावल् अमरनाथनम्बूदरी, धर्माधिकारी स्वयंवरसेमवालः वेदपाठिनश्च धार्मिकानुष्ठानानि सम्पादयिष्यन्ति। अर्धरात्रौ सांकेतिकरूपेण भगवान् श्रीकृष्णस्य जन्मोत्सवः आचरिष्यते।

अस्मिन् अवसरे विशेषारतीः पूजाऽर्चनानि च समाप्य श्रद्धालुभ्यः प्रसादः वितरिष्यते। भगवान् श्रीकृष्णं सांकेतिकरूपेण दोलायां दोलयितुं मन्दिरपरिसरे दोला स्थापितास्ति। मन्दिरस्य गर्भगृहं परिसरश्च आकर्षकरूपेण अलङ्कृतः अस्ति तथा भगवान् श्रीकृष्णस्य बालस्वरूपस्य पूजा विशेषभोगस्य च व्यवस्था कृता अस्ति।

बीकेटीसी-संस्थायाः माध्यमप्रभारी डॉ. हरीशगौडः अवदत् यत् बदरीनाथधाम्नि जन्माष्टमीपर्वणः विशेषं धार्मिकमहत्त्वं वर्तते। देशस्य विभिन्नेभ्यः भागेभ्यः आगताः तीर्थयात्रिणः भगवान् बदरीनाथस्य दर्शनैः सह जन्माष्टमीसम्बद्धेषु धार्मिककार्यक्रमेष्वपि सम्मिलिताः भवन्ति। श्रीबदरीशपण्डापञ्चायत् बदरीनाथस्य पक्षतः शनिवासरेऽपि जन्मोत्सवकार्यक्रमः आयोजयिष्यते।

अस्मिन् अवसरे कार्यपालकाभियन्ता विपिनतिवारी, प्रभारी-अधिकारी युद्धवीरपुष्पवानः, प्रशासनिकाधिकारी विवेकथपलियालः, सन्दीपकपरुवाणः, योगम्बरनेगी इत्यादयः अधिकारी-कर्मचारिणः, तीर्थपुरोहिताः बहुसंख्यकाः श्रद्धालवश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani