Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 04 सितंबरमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामिमहोदयः शुक्रवासरे मुख्यमन्त्रिणः शिविरकार्यालये मनोरमाडबरालजनकल्याणसमित्या विकसितस्य कृषककेन्द्रितस्य चलदूरभाषीयानुप्रयोगस्य ‘मनोरमा कृषिरक्षक’ इत्यस्य शुभारम्भं कृतवान्।
मुख्यमन्त्रिणा उक्तम् यत् अयं अनुप्रयोगः कृषकेभ्यः स्वसहायतासमूहेभ्यश्च उपयोगी अस्ति। आधुनिकप्रौद्योगिक्याः समुचितोपयोगेन कृषकेभ्यः कृषिसम्बद्धाः आवश्यकाः सूचनाः सेवाश्च सुलभतया उपलब्धाः कर्तुं शक्यन्ते। अस्याः पहलस्य कृते तेन संस्थायै शुभकामनाः प्रदत्ताः।
समितेः पदाधिकारिणां अनुसारम्, अस्य अनुप्रयोगस्य माध्यमेन कृषकेभ्यः वास्तविकसमयस्य मौसमसूचनाः चेतावन्यश्च, सस्यविशिष्टाः कृषिपरामर्शाः, कृत्रिमबुद्धिमत्तायाः आधारेण सस्यरोगाणां परिचयः, कृषिबाजारसम्बद्धाः सूचनाः तथा परिवहन-रसद्व्यवस्थासम्बद्धाः सुविधाः एकस्मिन् एव अङ्कीयमञ्चे उपलब्धाः कर्तुं प्रयासः कृतः अस्ति।
अनुप्रयोगे स्वसहायतासमूहानां ग्रामीणोद्यमानां च विपणनेन सह संयोजनसम्बद्धाः सुविधाः अपि समाविष्टाः सन्ति। अस्य उद्देश्यं कृष्युत्पादनात् आरभ्य विपण्यपर्यन्तं कृषकेभ्यः आवश्यकं अङ्कीयसहयोगं उपलब्धं कारयितुम् अस्ति।
अस्मिन् अवसरे कृषिः कृषककल्याणमन्त्री गणेशजोशी, मनोरमाडबरालजनकल्याणसमित्याः कमला डबराल, राजेश डबराल, अंशुल, प्राञ्जलनौडियालः तथा सूरवीरसिंहकठैतः उपस्थिताः आसन्।---
Hindusthan Samachar / Dheeraj Maithani