नंद उत्सवेन काठाम पूजया सह शुभारभत वैकुंठपुर राजबाड्याः 517तमो दुर्गापूजोत्सवः
जलपाईगुड़ी, 05 सितंबरमासः (हि.स.)। नन्दोत्सवेन काठामपूजया च सह जलपाइगुड्याः ऐतिहासिके वैकुण्ठपुरराजप्रासादे सप्तदशाधिकपञ्चशततमवर्षीया दुर्गापूजा प्रारब्धा। जन्माष्टम्याः परदिने आयोज्यमानेन पारम्परिकेन नन्दोत्सवेन सहैव राजप्रासादे दुर्गोत्सवस्य सज्
ढोल बजाकर राजबाड़ी में दुर्गापूजा की तैयारी करते पुरोहित


जलपाईगुड़ी, 05 सितंबरमासः (हि.स.)। नन्दोत्सवेन काठामपूजया च सह जलपाइगुड्याः ऐतिहासिके वैकुण्ठपुरराजप्रासादे सप्तदशाधिकपञ्चशततमवर्षीया दुर्गापूजा प्रारब्धा। जन्माष्टम्याः परदिने आयोज्यमानेन पारम्परिकेन नन्दोत्सवेन सहैव राजप्रासादे दुर्गोत्सवस्य सज्जतापि प्रारब्धा।

पारिवारिकपरम्परानुसारं शनिवासरे प्रातः राजप्रासादे नन्दोत्सवस्य आयोजनं कृतम्। उत्सवस्य प्रमुखमाकर्षणं पारम्परिकं कर्दमक्रीडनमासीत्। अस्यामेव क्रीडायाम् उपयुक्तया मृत्तिकया राजप्रासादस्थायाः दुर्गाप्रतिमायाः प्रथमस्तरः लेपयिष्यते।

नन्दोत्सवेन सह काठामपूजया दुर्गाप्रतिमानिर्माणस्य प्रारम्भिकचरणस्य शुभारम्भोऽपि जातः। राजप्रासादस्य नाटमन्दिरे शनिवासरादेव प्रतिमानिर्माणकार्यं प्रारब्धम्। वर्षेभ्यः प्रचलितां पारिवारिकपरम्परां रीतिरिवाजांश्च अनुसृत्य प्रतिमा निर्मास्यते।

राजप्रासादसूत्रानुसारं महालयस्य प्रातःकाले दुर्गाप्रतिमायाः चक्षुर्दानं करिष्यते। नन्दोत्सवेन काठामपूजया च सह ऐतिहासिके वैकुण्ठपुरराजप्रासादे दुर्गापूजामधिकृत्य उत्सवस्य वातावरणं निर्मितुं प्रारब्धम्।

Hindusthan Samachar / Dheeraj Maithani