Enter your Email Address to subscribe to our newsletters

मुरादाबादम्, 05 सितम्बरमासः (हि.स.)।
प्रदेशस्तरीय-समन्वय-सब-जूनियर-बैडमिण्टन-प्रतियोगितायां मण्डलस्य प्रतिनिधित्वं कर्तुं शनिवासरे नेताजी-सुभाषचन्द्र-बोस-सोनकपुर-क्रीडाङ्गणे मण्डलीय-चयन-परीक्षणं सम्पन्नम्। अण्डर-१५ बालक-बालिका-वर्गयोः प्रायः त्रिंशत्-क्रीडकाः क्रीडाङ्गणे स्वप्रतिभां प्रदर्शितवन्तः। तेषां प्रदर्शनस्य आधारेण एकादश-क्रीडकानां चयनं कृतम्। चयनिताः क्रीडकाः अधुना गाजियाबादे आयोज्यमानायां प्रदेशस्तरीय-प्रतियोगितायां मण्डलस्य प्रतिनिधित्वं करिष्यन्ति।
प्रदेशस्तरीय-प्रतियोगिता सप्तमीतः नवमीं सितम्बर-पर्यन्तं गाजियाबादे आयोजिता भविष्यति। अण्डर-१५ बालक-वर्गे हुनाल शर्मा, आदित्य यादव, आरुष राज, दक्ष गोस्वामी, पार्थ चाहल तथा युवान चौधरी इत्येतेषां चयनं कृतम्। तथैव बालिका-वर्गे गौरी अग्रवाल, स्तुति भटनागर, सुव्रीन कौर, नित्य बालव तथा मिरल चौहान इत्येताभिः मण्डलीय-दले स्थानं प्राप्तम्।
चयन-प्रक्रिया क्रीडाधिकारी सुनील कुमार सिंहः तथा बैडमिण्टन-प्रशिक्षक आसिफ सिद्दीकी इत्यनयोः पर्यवेक्षणे सम्पन्ना। क्रीडकाः चयन-परीक्षणस्य समये स्वक्रीडा-कौशलं, शारीरिक-सामर्थ्यं तथा क्रीडाङ्गणे प्रदर्शनं प्रदर्श्य चयनाय स्वाधिकारं प्रस्तुतवन्तः। अस्मिन् अवसरे प्रधान-सहायकः राम कृपालो, गोविन्द कुमार यादवः, सचिन बिश्नोई, ललिता चौहानो, धीरजः इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani