Enter your Email Address to subscribe to our newsletters

गुवाहाटी, ०५ सितम्बरमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्त-बिस्वसरमा शनिवासरे उक्तवान् यत् आहोमरजवंशस्य ऐतिहासिकराजधानी रङ्गपुर-शिवसागरस्य यूनेस्को-विश्व-धरोहरस्थलरूपेण मान्यतां प्राप्तुं दिशि महत्त्वपूर्णं पदं अग्रे वर्धितम् अस्ति।
मुख्यमन्त्रिणा समाजमाध्यमे प्रकाशिते सन्देशे उक्तं यत् भारतस्य पक्षतः गत १९ जूनमासे २०२६ तमे वर्षे पेरिसस्थिते यूनेस्को-संस्थायां भारतस्य स्थायीप्रति-निधिमण्डलेन रङ्गपुर-शिवसागर-समुच्चयस्य यूनेस्को-विश्वधरोहर-स्थलरूपेण मान्यताप्राप्त्यर्थं औपचारिकं नामाङ्कनं प्रस्तुतम्। एतत् नामाङ्कनं यूनेस्को-संस्थायाः (iii) तथा (iv) मानदण्डयोः अन्तर्गतं कृतम्।
आहोमरजवंशेन ब्रह्मपुत्रोपत्यकायां प्रायः षट् शताब्दीपर्यन्तं निरन्तरं शासनं कृतम्। रङ्गपुर-शिवसागर-परिसरे आहोम-कालीनस्य उत्कृष्टस्य स्थापत्यस्य अभियान्त्रिकी-परम्परायाश्च दर्शनं भवति। अत्र रङ्गघरम्, कारेङ्घरम्, ऐतिहासिकानि मन्दिराणि, सरांसि तथा अन्याः महत्त्वपूर्णाः संरचनाः सन्ति। मुख्यमन्त्रिणः अनुसारं रङ्गघरम् एशियायाः प्राचीनतमेषु जीवद्-अम्फीथिएटर-स्थलेषु अन्यतमम् अस्ति।डॉ. हिमन्तबिस्वसरमा उक्तवान् यत् एषः प्रयत्नः आहोमसभ्यतायाः गौरवशालिनं इतिहासं विश्वमञ्चे अधिकप्रमुखतया स्थापयिष्यति। वर्षे २०२४ तमे चराइदेवस्य मैदाम्-स्थलाय यूनेस्को-विश्वधरोहर-स्थलस्य मान्यता प्राप्ता आसीत्। तदनन्तरम् एषः प्रयत्नः आहोम-परम्परायाः वैश्विकमान्यतां प्राप्तुं दिशि महत्त्वपूर्णः मन्यते।
सः उक्तवान् यत् चराइदेवः आहोमरजवंशस्य स्मृतीः संरक्षति, यदा शिवसागरः तेषां शासनस्य गौरवगाथां प्रदर्शयति। उभे स्थले मिलित्वा असमस्य आहोम-इतिहासस्य समृद्धां कथां पूर्णतया प्रस्तौतः।
मुख्यमन्त्रिणा डॉ. हिमन्तबिस्वसरमणा असमस्य परम्परायाः वैश्विकमान्यतां प्राप्तुं कृतप्रयत्नानां कृते प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति राज्यस्य जनानां पक्षतः कृतज्ञता व्यक्ता।
Hindusthan Samachar / Divya Ranjan