Enter your Email Address to subscribe to our newsletters

उज्जयिनी, ०५ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे श्रीमहाकालेश्वरमन्दिरे शनिवासरे प्रातः भगवतः महाकालस्य भस्मारार्तिकी विधिविधानपूर्वकं विशेषशृङ्गारेण च सम्पन्ना। मन्दिरस्य कपाटानि प्रातः प्रायः चतुर्वादने उद्घाटितानि। ततः गर्भगृहे प्रतिष्ठितानां भगवतः प्रतिमानां पूजनं कृत्वा ज्योतिर्लिङ्गस्य जलाभिषेकः कृतः। पञ्चामृतपूजायां दुग्धेन, दध्ना, घृतेन, शर्करया, मधुना फलरसैश्च भगवतः महाकालस्य अभिषेकः कृतः। प्रथमघण्टानादं कृत्वा हरिओमिति जलं समर्पितम् तथा मन्त्रपाठस्य मध्ये पूजनार्चनस्य प्रक्रिया अग्रे वर्धिता।भस्मारार्तिक्याः पूर्वं भगवतः महाकालस्य मनोहरं शृङ्गारं कृतम्। बाबामहाकालाय चन्दनलेपः, भाङ्गः, बिल्वपत्राणि, रुद्राक्षमाला तथा सुगन्धितपुष्पमालाः समर्पिताः। मस्तके त्रिपुण्ड्रकं त्रिशूलं च धृत्वा डमरुकस्य शेषनागस्य च रजतमुकुटं धारणं कारितम्। तेन सह रजतमयम् ॐकारचिह्नं, रजतमयी मुण्डमाला तथा अन्यैः रजताभरणैः भगवान् अलङ्कृतः।
भस्म समर्प्य सम्पन्ना आरार्तिकी
कर्पूरारार्तिक्याः नैवेद्यसमर्पणस्य च अनन्तरं ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य विधिविधानपूर्वकं भस्म समर्पितम्। महानिर्वाणी-अखाडा इत्यस्य पक्षतः अपि भगवते महाकालाय भस्म समर्पितम्। धार्मिकमान्यतानुसारं भस्मसमर्पणानन्तरं भगवान् महाकालः निराकाररूपात् साकाररूपं प्राप्य भक्तेभ्यः दर्शनं प्रयच्छति। ततः भगवतः गणेशस्य, मातुः पार्वत्याः तथा भगवतः कार्तिकेयस्य पूजनं कृत्वा महाकालाय फलानि मिष्टान्नानि च नैवेद्यरूपेण समर्पितानि।
जयघोषैः निनादितं मन्दिरपरिसरम्
भस्मारार्तिक्याः दर्शनार्थं बहुसङ्ख्याकाः श्रद्धालवः मन्दिरं प्राप्तवन्तः। श्रद्धालवः बाबामहाकालस्य दर्शनं कृत्वा नन्दीमहाराजस्यापि दर्शनं कृतवन्तः। अनेके श्रद्धालवः नन्दिनः कर्णसमीपे स्वमनोकामनां निवेद्य भगवन्तं महाकालं तस्याः पूर्तये प्रार्थयन्तः दृश्यन्ते स्म। आरार्तिक्याः समये मन्दिरपरिसरः बाबामहाकालस्य जयघोषैः निनादितः। श्रद्धालवः भस्मारार्तिक्याः दर्शनं कृत्वा भगवतः आशीर्वादं प्राप्तवन्तः तथा धार्मिके वातावरणे पूजनार्चनं कृतवन्तः।
हिन्दुस्थान समाचार / Divya Ranjan