उपराष्ट्रपत्युश्चिदंबरम पिल्लई इत्यस्य जयंत्यां दत्तः श्रद्धांजलिः
नई नवदिल्ली, 05 सितंबरमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन् शनिवासरे स्वतन्त्रतासेनानी वी. ओ. चिदम्बरम् पिल्लै-महोदयस्य जयन्त्यवसरे तस्मै श्रद्धाञ्जलिम् अर्पितवान्। उपराष्ट्रपतिः ‘एक्स’-सन्देशे लिखितवान्— “स्वतन्त्रतासेनानी वी. ओ. चिद
प्रतीकात्मक


नई

नवदिल्ली, 05 सितंबरमासः (हि.स.)।

उपराष्ट्रपतिः सी. पी. राधाकृष्णन् शनिवासरे स्वतन्त्रतासेनानी वी. ओ. चिदम्बरम् पिल्लै-महोदयस्य जयन्त्यवसरे तस्मै श्रद्धाञ्जलिम् अर्पितवान्। उपराष्ट्रपतिः ‘एक्स’-सन्देशे लिखितवान्— “स्वतन्त्रतासेनानी वी. ओ. चिदम्बरम् पिल्लाई-महोदयस्य जयन्त्यवसरे अहं महते अस्मै देशभक्ताय सादरं श्रद्धाञ्जलिम् अर्पयामि, यस्य साहसं, त्यागः, राष्ट्रं प्रति च अविचलं समर्पणं सर्वेषाम् अस्माकं कृते प्रेरणायाः स्रोतः अस्ति। ‘कप्पलोट्टिया तमिऴन्’ (तमिल-नाविकः) इति सस्नेहं स्मर्यमाणः सः देशसेवायै सुखसुविधासम्पन्नं जीवनं परित्यक्तवान्। स्वदेशी-वाष्प-नौपरिवहन-कम्पन्याः माध्यमेन सः आङ्ग्लानां व्यापारिक-प्रभुत्वम् आह्वयत् तथा स्वदेशी-भावनायाः स्वावलम्बनस्य च भावनायाः सुदृढीकरणे महत्त्वपूर्णं योगदानं दत्तवान्। भारतस्य स्वातन्त्र्यार्थं सः असाधारणेन धैर्येण कारागारवासं विविधाः कठोराः यातनाश्च सोढवान्। आगच्छन्तु, सशक्तस्य, समृद्धस्य, विकसितस्य, आत्मनिर्भरस्य च भारतस्य निर्माणस्य संकल्पं कृत्वा तस्य स्मृतेः सम्मानं कुर्मः।”

उल्लेखनीयं यत् ५ सितम्बर १८७२ तमे वर्षे तमिलनाडुराज्यस्य तिरुनेलवेली-मण्डलस्य ओट्टापिडारम्-स्थाने जन्म प्राप्तवान् चिदम्बरम् पिल्लै स्वतन्त्रतासेनानी एव न, अपितु अधिवक्ता, उद्योगपतिः, तमिलभाषायाः विद्वान् च आसीत्। आङ्ग्ल-कम्पनीनां व्यापारिक-एकाधिकारं भङ्क्तुं तेन १९०६ तमे वर्षे ‘स्वदेशी-वाष्प-नौपरिवहन-कम्पनी’ स्थापिता। तेन तूतीकोरिन् (थूथुकुडी) तथा कोलम्बो-योर्मध्ये प्रथमां स्वदेशीयां भारतीय-नौपरिवहन-सेवाम् आरब्धवान्।

चिदम्बरम् १९०८ तमे वर्षे तूतीकोरिनः कोरल-मिल्-नामके उद्योगसंस्थाने कार्यरत् श्रमिकान् एकीकृत्य ऐतिहासिकस्य कर्मविरामस्य नेतृत्वं कृतवान्। आङ्ग्लशासनं तस्य स्वदेशी-राष्ट्रवादीभिः कार्यैः कुपितं भूत्वा तं राजद्रोहस्य आरोपेण गृहीत्वा कठोरकारावासस्य दण्डं दत्तवान्। कारागारे तं वृषभवत् तैलयन्त्रे योजयित्वा कठोराः यातनाः प्रदत्ताः। अत एव सः ‘सेक्किऴुत्त सेम्मल्’ इत्यनेन अपि प्रसिद्धः अभवत्।

-------------

Hindusthan Samachar / Dheeraj Maithani