Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 05 सितंबरमासः (हि.स.)।
ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी भारतस्य प्रथमोपाराष्ट्रपतये महान् शिक्षाविदे च डॉ सर्वपल्ली राधाकृष्णनाय जन्मजयन्त्याः शिक्षकदिवसस्य च अवसरे प्रदेशवासिभ्यः हार्दिकशुभकामनाः प्रदत्तवान्। सामाजिकमाध्यमे साझीकृते स्वसन्देशे मुख्यमन्त्रिणा उक्तं यत् शिक्षा केवलं ज्ञानप्रदानस्य माध्यमं नास्ति अपि तु जीवननिर्माणस्य महती प्रक्रिया अस्ति। तेन विद्यार्थिभ्यः गुणवत्तापूर्णशिक्षाप्रदानेन सह तेषाम् अन्तर्निहितप्रतिभायाः सृजनशीलतायाः नैतिकमूल्यानां च विकासे शिक्षकाणां भूमिकां अत्यन्तं महत्त्वपूर्णां प्रतिपादितवान्। मुख्यमन्त्रिणा उक्तं यत् भारतीयसमाजे शिक्षकाः गुरुरूपेण सर्वोच्चं सम्मानं प्राप्नुवन्ति यतः ते विद्यार्थिनां व्यक्तित्वस्य भविष्यस्य च निर्माणे महत्त्वपूर्णं योगदानं ददति। तेन उक्तं यत् शिक्षकाणां दायित्वं केवलं विद्यार्थिभ्यः पुस्तकीयज्ञानप्रदानपर्यन्तं सीमितं नास्ति अपि तु तान् ज्ञानमूल्यबोधात्मविश्वासैः च समृद्धान् कृत्वा तेषां उज्ज्वलभविष्यस्य आधारशिलां स्थापयितुमपि अस्ति। मुख्यमन्त्रिणा आशा विश्वासश्च व्यक्तौ यत् शिक्षकसमुदायः विद्यार्थिनाम् उज्ज्वलभविष्यनिर्माणस्य दिशि स्वमहत्त्वपूर्णं दायित्वं पूर्णनिष्ठया समर्पणेन च निर्वहति। अस्मिन् अवसरे तेन सर्वेभ्यः शिक्षकेभ्यः प्रदेशवासिभ्यश्च शिक्षकदिवसस्य हार्दिकशुभकामनाः अभिनन्दनं च प्रदत्तम्।
---------------
Hindusthan Samachar / Dheeraj Maithani