काङ्ग्रेसेन पूर्वसैनिकविभागे २६ राष्ट्रियसमन्वयकाः नियुक्ताः
नवदिल्ली, ०५ सितम्बरमासः (हि.स.)। काङ्ग्रेसदलेन पूर्वसैनिकविभागे २६ राष्ट्रियसमन्वयकानां नियुक्तिः कृता अस्ति। काङ्ग्रेसाध्यक्षेन मल्लिकार्जुन-खरगेण एतासां नियुक्तीनां प्रस्तावः अनुमोदितः। काङ्ग्रेसस्य सङ्गठनमहासचिवेन के. सी. वेणुगोपालेन शनिवासरे
कांग्रेस पार्टी (फाइल फोटो)।


नवदिल्ली, ०५ सितम्बरमासः (हि.स.)। काङ्ग्रेसदलेन पूर्वसैनिकविभागे २६ राष्ट्रियसमन्वयकानां नियुक्तिः कृता अस्ति। काङ्ग्रेसाध्यक्षेन मल्लिकार्जुन-खरगेण एतासां नियुक्तीनां प्रस्तावः अनुमोदितः।

काङ्ग्रेसस्य सङ्गठनमहासचिवेन के. सी. वेणुगोपालेन शनिवासरे प्रदत्तायां आधिकारिकसूचनायां उक्तं यत् अखिलभारतीयकाङ्ग्रेससमित्याः पूर्वसैनिकविभागस्य राष्ट्रियसमन्वयक-रूपेण २६ जनानां दायित्वं निर्धारितम् अस्ति।

नियुक्तेषु राष्ट्रियसमन्वयकेषु एस. के. सहगलः, सन्देशसिङ्गलकरः, धर्मवीरः, रमा आर्या, सूबेदारः जोरासिंहः (निवृत्तः), रघबीरसिंहः, मलकीतसिंहः, सूबेदारमेजरः विनोदकुमारः, दिनेशरायः, पी. धर्मेन्द्रः, पी. गुणशेखरः, बाबूलालः, एस. के. राणाः, सार्जेन्ट् अमन नवाज शरीफः, हाजी रुस्तमखानः, रविचन्द्रन्, एस. विल्सनराजः, के. पी. सिंहः, प्रवीणसैनी, वीरनारी आकांक्षा कश्यपः, आकाश-दीपसिंहः, सूबेदारः कुन्दनमेहता, सूबेदार-मेजरः राजपालसिंहरावतः, सूबेदारः मनोहरसिंहरावतः, विंग कमाण्डरः अरुणकुमारपाण्डेयः तथा सूबेदारमेजरः वाई. डी.सिंहाः च सन्ति।

Hindusthan Samachar / Divya Ranjan