Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 05 सितंबरमासः (हि.स.)।
दिल्लीनगर्याः मार्गेभ्यः उड्डीनां धूलिं नियन्त्रयितुं मार्गाणां पार्श्वेषु हरितिमानं वर्धयितुं च वैज्ञानिक तथा औद्योगिक अनुसन्धान परिषदः (सीएसआईआर) केन्द्रीयमार्गानुसन्धानसंस्थानेन (सीआरआरआई) दिल्लीसर्वकारस्य लोकनिर्माणविभागस्य (पीडब्ल्यूडी) अभियन्तृभ्यः विशेषप्रशिक्षणकार्यक्रमः आयोजितः। प्रशिक्षणकार्यक्रमस्य आयोजनं एनडीएमसी-अधिवेशनकेन्द्रे कृतम्।
अस्मिन् प्रशिक्षणकार्यक्रमे वायुगुणवत्ताप्रबन्धनायोगेन (सीएक्यूएम) मार्गाणां पक्कीकरणाय हरितीकरणाय च निर्धारितस्य मानकढाञ्चस्य दिल्लीमार्गेषु कार्यान्वयनस्य उपायानां विषये विस्तरेण चर्चा कृता।
कार्यक्रमस्य शुभारम्भः दीपप्रज्वालनेन अभवत्। अस्मिन् अवसरे सीआरआरआई-संस्थानस्य निदेशकः डॉ. च. रविशेखरः उक्तवान् यत् वैज्ञानिकपद्धत्या मार्गनिर्माणम्, उत्तमं पक्कीकरणम्, पर्यावरणानुकूलोपायानां च स्वीकरणेन मार्गधूलिः न्यूनीकर्तुं शक्यते। तेन दिल्ली-नगरस्य वायुगुणवत्तायां सुधारः भविष्यति।
मार्गनिर्माणं परिवहनं च प्रति प्रशिक्षणम्
एकदिवसीयप्रशिक्षणकार्यक्रमे सीआरआरआई-संस्थानस्य विशेषज्ञैः वैज्ञानिकैः नगरीयमार्गनिर्माणेन योजनया च सम्बद्धेषु अनेकमहत्त्वपूर्णविषयेषु सूचना प्रदत्ता। तत्र राष्ट्रीयराजधानीक्षेत्रे मार्गपक्कीकरणेन हरितीकरणेन च सम्बद्धाः निर्देशाः, नगरीयक्षेत्राणां मानकानि, भारतीयमार्गकाङ्ग्रेसस्य निर्देशानुरूपं मार्गजालस्य योजना च अन्तर्भूताः आसन्।
अभियन्तृभ्यः विभिन्नश्रेणीमार्गाणां कृते मार्गमध्यभागस्य रचना, आवश्यकतथ्यानां सङ्कलनं, निर्धारितदत्तांशः च इत्यादिविषयेषु अपि प्रशिक्षणं प्रदत्तम्। प्रशिक्षणकाले सार्वजनिकपरिवहनसुविधानां मानकैः सह पदचारिणां गैर-मोटरीकृतपरिवहनस्य च कृते उत्तमपदमार्गाणां निर्माणे अपि विशेषः बलः दत्तः।
तदतिरिक्तं मार्गसंकेतकानां रेखाङ्कनस्य च, जलनिकासीव्यवस्थायाः, विद्युत्-दूरसञ्चारजालस्य, बसस्थानकानां, गैस-इन्धनकेन्द्राणां च मार्गसंरचनया सह उत्तमरीत्या संयोजनस्य विषये तकनीकीज्ञानं प्रदत्तम्।
अस्मिन् अवसरे पीडब्ल्यूडी-विभागस्य मुख्याभियन्ता नवीनबंसलः तथा पीडब्ल्यूडी-विभागस्य विशेषसचिवः रविझा च कार्यक्रमं सम्बोधितवन्तौ।
---------------
Hindusthan Samachar / Dheeraj Maithani