उत्तराखंडं रुद्राक्षकेंद्रम् उद्दिश्य नीलपत्रं सज्जीकर्तुं निर्देशः
नव टिहरी, 05 सितंबरमासः (हि.स.)। हिमालयीयराज्यम् उत्तराखण्डं रुद्राक्षस्य कृषेः, प्रसंस्करणस्य मूल्यवर्धनस्य च प्रमुखकेन्द्रं भवितुं दिशि महत्त्वपूर्णं पदं स्थापयितुं गच्छति। मुख्यमन्त्री पुष्करसिंहधामी राज्ये रुद्राक्षस्य सङ्गठितां व्यावसायिकां
फोटो-05एनटीएच06 टिहरी विधायक किशोर उपाध्याय व प्रतिनिधिमंडल की रिपोर्ट का अवलोकन करते सीएम पुष्कर सिंह धामी। फाइल फाेटाे।


नव टिहरी, 05 सितंबरमासः (हि.स.)।

हिमालयीयराज्यम् उत्तराखण्डं रुद्राक्षस्य कृषेः, प्रसंस्करणस्य मूल्यवर्धनस्य च प्रमुखकेन्द्रं भवितुं दिशि महत्त्वपूर्णं पदं स्थापयितुं गच्छति। मुख्यमन्त्री पुष्करसिंहधामी राज्ये रुद्राक्षस्य सङ्गठितां व्यावसायिकां च कृषिं प्रोत्साहयितुं व्यापकनीतेः निर्माणार्थं निर्देशान् दत्तवान्। उल्लेखनीयं यत् उक्तोपक्रमः टिहरीविधायकस्य किशोरउपाध्यायस्य नेतृत्वे नेपालदेशं गतस्य प्रतिनिधिमण्डलस्य विस्तृताध्ययनानन्तरं समक्षम् आगतः। प्रतिनिधिमण्डले कृषिवैज्ञानिकः आध्यात्मिकलेखकश्च डॉ. रमेशसिंहपालः, रुद्राक्षविशेषज्ञः प्रिन्सअग्रवालश्च सम्मिलितौ आस्ताम्।

ते नेपालस्य विभिन्नेषु क्षेत्रेषु रुद्राक्षस्य कृषिं, सस्यव्यवस्थापनं, कटाईनन्तरप्रसंस्करणव्यवस्थां, विपणनप्रणालीं, मृत्तिकायाः विशेषताः तथा कृषकाधारितं उत्पादनप्रतिमानं च अध्येतुम् अध्ययनं कृतवन्तः। क्षेत्रीयाध्ययनस्य वैज्ञानिकमूल्याङ्कनस्य च आधारेण प्रतिनिधिमण्डलेन उत्तराखण्डे रुद्राक्षस्य कृषेः सम्भावनां प्रति गतस्य जुलाईमासस्य नवम्यां तिथौ मुख्यमन्त्रिणे धामिने प्रतिवेदनं समर्पितम्। सिफारिशाणां विचारणानन्तरं मुख्यमन्त्रिणः निर्देशानुसारं अगस्तमासस्य एकत्रिंशत्तम्यां तिथौ उपसचिवेन उद्यानस्य खाद्यप्रसंस्करणविभागस्य च कृते व्यापक-राज्यनीतेः निर्माणसम्बन्धे पत्रं प्रेषितम्।

विधायकः किशोरः अवदत् यत् अस्य उद्देश्यं रुद्राक्षं व्यावसायिकरूपेण लाभप्रदां सस्यरूपेण विकसितुम् अस्ति। भारते घरेलुरुद्राक्षस्य आवश्यकतां पूरयितुं आयाते पर्याप्ता निर्भरता अस्ति। प्रदत्तानुसारं भारतं पञ्चनवतिप्रतिशताधिकं रुद्राक्षं नेपालदेशात् इण्डोनेशियादेशाच्च आयाति। विधायकः उपाध्यायः, डॉ. रमेशसिंहपालः, प्रिन्सअग्रवालश्च प्रस्तावितस्य नीत्युपक्रमस्य स्वागतं कृतवन्तः।

Hindusthan Samachar / Dheeraj Maithani