पूर्वनगांव इत्यस्य जनपदाधिकारी देवाशीषशर्मा शीघ्रं भाजपायां सम्मिलिष्यति
नगावम् (असमः), ०५ सेप्टेम्बरमासः (हि.स.)। नगावस्य पूर्वायुक्तः आईएएस-अधिकारी देवाशीषशर्मा अग्रिमेषु एक-द्विदिवसेषु भारतीयजनतापक्षे सम्मिलितः भवितुं सम्भावना अस्ति। सूच्यते यत् मुख्यमन्त्रिणः डॉ. हिमन्तबिस्वसरमणः कार्यैः प्रभावितः भूत्वा देवाशीषशर्
फाइल फोटो: देवाशीष शर्मा


नगावम् (असमः), ०५ सेप्टेम्बरमासः (हि.स.)। नगावस्य पूर्वायुक्तः आईएएस-अधिकारी देवाशीषशर्मा अग्रिमेषु एक-द्विदिवसेषु भारतीयजनतापक्षे सम्मिलितः भवितुं सम्भावना अस्ति।

सूच्यते यत् मुख्यमन्त्रिणः डॉ. हिमन्तबिस्वसरमणः कार्यैः प्रभावितः भूत्वा देवाशीषशर्मा भाजपायां सम्मिलितुं गच्छति। भाजपापक्षतः अपि तं दलस्य सदस्यं कर्तुं तेन सह सम्पर्कः कृतः अस्ति।

देवाशीषशर्मा अवदत् यत् भाजपायां सम्मिलितस्य अनन्तरं यदि दलं तं नगावं लोकसभाक्षेत्रस्य उपनिर्वाचने प्रत्याशि-रूपेण स्थापयति, तर्हि सः निश्चितरूपेण निर्वाचनं स्पर्धिष्यति।

उल्लेखनीयं यत् देवाशीषशर्मा गुरुवासरे सर्वकारीयसेवातः स्वैच्छिकसेवानिवृत्तिम् गृहीतवान्। सः २०२५ तमस्य वर्षस्य जूनमासस्य १६ दिनाङ्कतः नगांव इत्यस्य आयुक्तपदे कार्यरतः आसीत्।

Hindusthan Samachar / Divya Ranjan