Enter your Email Address to subscribe to our newsletters

हमीरपुरम्, ०५ सितम्बरमासः (हि.स.)। हिमाचलप्रदेशस्य तान्त्रिकविश्वविद्यालये हमीरपुरे विद्यार्थिभिः शिक्षकदिवसः आचरितः। कार्यक्रमे तकनिकी-विश्वविद्यालयस्य कुलसचिवः अनुपम-कुमारठाकुरः मुख्यातिथिरूपेण उपस्थितः अभवत्। विद्यार्थिभिः शिक्षक-दिवसस्य कार्यक्रमे विविधाः प्रस्तुतयः प्रदर्शिताः।
मुख्यातिथिना विद्यार्थिभ्यः शिक्षक-विद्यार्थिनोर्मध्ये संवादस्य महत्त्वविषये विस्तरेण सूचना प्रदत्ता। तेन उक्तं यत् विद्यार्थिनः व्यक्तित्वनिर्माणे प्राध्यापकस्य भूमिका अत्यन्तं महत्त्वपूर्णा भवति।
कार्यक्रमस्य अवधौ गौतमबुद्धस्य विषये, सभ्यतानां विकासस्य तासां च महत्त्वस्य विषये, शिक्षकस्य भूमिकायाः महत्त्वस्य च विषये तथा शिक्षकदिवसस्य महत्त्वविषये विचाराः सूचनाश्च साझा कृताः। वक्तृभिः विद्यार्थिनां जीवने शिक्षकस्य मार्गदर्शनस्य, संस्कारस्य, चरित्रनिर्माणस्य, सर्वाङ्गीण-विकासस्य च महत्त्वपूर्णां भूमिकां प्रकाशितम्।
विद्यार्थिभिः विविधाः सांस्कृतिकाः सृजनात्मकाः च प्रस्तुतयः अपि प्रदर्शिताः, येषु ते स्वशिक्षकेभ्यः सम्मानं, कृतज्ञतां, स्वीयाः भावनाश्च सुन्दररूपेण व्यक्तवन्तः। कार्यक्रमस्य वातावरणम् उत्साहपूर्णम्, आत्मीयं प्रेरणादायकं च आसीत्। समग्ररूपेण कार्यक्रमः गुरु-शिष्यपरम्परायाः, शिक्षायाः महत्त्वस्य, शिक्षकेषु सम्मानस्य कृतज्ञतायाः च भावनायै समर्पितः आसीत्। विद्यार्थिभिः प्राध्यापकेभ्यः विविधाः प्रतियोगिताः अपि आयोजिता।
अस्मिन् अवसरे तकनिकीविश्वविद्यालयस्य उपकुलसचिवः सुरेन्द्रशर्मा, अनुभागा-धिकारी पुनीतकौशलः, प्राध्यापकः डॉ. जे. पी. शर्मा इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan