Enter your Email Address to subscribe to our newsletters

— राज्यपालस्य पटेलस्य मुख्यातिथ्ये मुख्यमन्त्रिणः डॉ. यादवस्य अध्यक्षतायां भविष्यति समारोहः
भोपालम्, ०४ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशसर्वकारः शिक्षकदिवसस्य अवसरे शिक्षाक्षेत्रे उत्कृष्टं कार्यं कुर्वद्भ्यः ३३ शिक्षकेभ्यः राज्यस्तरीयशिक्षक-सम्मानेन सम्मानं करिष्यति। आरसीवीपी नरोन्हा-प्रशासन-प्रबन्धकीय-अकादम्याम्, भोपालनगरे, राज्यपालस्य मङ्गुभाईपटेलस्य मुख्यातिथ्ये मुख्य-मन्त्रिणः डॉ. मोहन-यादवस्य अध्यक्षतायां च आयोजिते राज्यस्तरीयशिक्षक-सम्मानसमारोहे एतत् सम्मानं प्रदास्यते।
लोकशिक्षणसञ्चालनालयस्य आयुक्तः अभिषेकसिंहः अवदत् यत् समारोहे विद्यालयशिक्षामन्त्री उदयप्रतापसिंहः, जनजातीयकार्याणां मन्त्री डॉ. कुँवर-विजयशाहः तथा क्रीडायुव-कल्याणमन्त्री विश्वाससारङ्गः विशेषा-तिथिरूपेण उपस्थिताः भविष्यन्ति।
अभिषेकसिंहः अवदत् यत् विद्यालय-शिक्षाविभागस्य पक्षतः आयोजितः अयं कार्यक्रमः प्रातः सार्धदशवादनतः भविष्यति। राज्यस्तरीयशिक्षकसम्मान-समारोहे प्रदेशसर्वकारेण ते शिक्षकाः सम्मानिताः भविष्यन्ति, ये विद्यार्थिभ्यः गुणवत्ता-पूर्णशिक्षां प्रदातुं, शैक्षणिक-नवाचाराणां प्रोत्साहनाय तथा विद्यालयेषु उत्तमं शैक्षणिकवातावरणं निर्मातुं च उल्लेखनीयं योगदानं दत्तवन्तः।
२५,००० रूप्यकाणां सम्मानराश्या शाटिका-श्रीफलेन प्रशस्तिपत्रेण च सम्मानम्
शिक्षकदिवसस्य अवसरे आयोजिते समारोहे सम्पूर्णप्रदेशतः चयनिताः ३३ उत्कृष्टशिक्षकाः सम्मानिताः भविष्यन्ति। राज्यस्तरीयपुरस्कार-२०२६ कृते चयनितेभ्यः शिक्षकेभ्यः शाटिका, श्रीफलम्, प्रशस्तिपत्रं तथा २५,००० रूप्यकाणां सम्मानराशिः प्रदास्यते।
गतवर्षे राष्ट्रियशिक्षकपुरस्कारेण सम्मा-नितयोः शिक्षकयोः विशेषसम्मानम्
समारोहे गतवर्षे, अर्थात् २०२५ तमे वर्षे, राष्ट्रियशिक्षकपुरस्कारेण सम्मानितयोः द्वयोः शिक्षकयोः विशेषसम्मानमपि करिष्यते। उल्लेखनीयं यत् २०२५ तमे वर्षे भारतसर्वकारस्य विद्यालयशिक्षासाक्षरता-विभागेन मध्यप्रदेशतः राष्ट्रियशिक्षक-पुरस्कार-२०२५ कृते चयनितौ राष्ट्रपतिना सम्मानितौ च उत्कृष्टशिक्षकौ शीला पटले तथा भेरूलालऔसारा समारोहे शाटिकया, श्रीफलेन, प्रशस्तिपत्रेण तथा सम्मानराश्या च विशेषरूपेण सम्मानितौ करिष्येते।
एते शिक्षकाः सम्मानिताः भविष्यन्ति
पूनममिश्रा, बिहारीलालप्रजापतिः, अरुण-कुमारभादे, बलरामअहिरवारः, मुकेश-कुमारशर्मा, अरुणकुमारमित्तलः, मुकेश-कुमारप्रजापतिः, मनीषतिवारी, अजय-कुमारमिश्रः, मुकेशनागरः, राजेशमहेश्वरी, मोहितकुमारगर्गः, पूजापाण्डेयः, सतीश-कुमारपाण्डेयः, श्वेतातिवारी, शिवलाल-दाङ्गी, धन्नालालबिसेनः, रितेशकुमार-पथाडे, सुखनन्दनसाहू, नरेन्द्रकुमार-भारद्वाजः, ओमप्रकाशविश्वकर्मा, महेन्द्र-सिंहठाकुरः, राकेशकुमारगुप्तः, शिखाशर्मा, महेन्द्रसिंहपवारः, ज्योतिपाठकः, राकेश-कुमारवर्मा, सुरेशचन्द्रसोनी, शर्मिला-उपाध्यायः, रीनादेवीकटरे, हेमन्त-कुमारवैद्यः, राकेशकुमारद्विवेदी तथा सीमापरमारः च अस्मिन् सम्माने अन्तर्भवन्ति।
Hindusthan Samachar / Divya Ranjan