भगवान् श्रीकृष्णः कष्टेष्वपि जीवनं सार्थकं कर्तुं शिक्षाम् अददात् - मुख्यमन्त्री डॉ. यादवः
मुख्यमन्त्री भोपालस्य इस्कॉन-मन्दिरे आयोजिते श्रीकृष्णजन्मोत्सवे सम्मिलितः भोपालम्, ०४ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् कष्टेषु स्थित्वापि जीवनं कथं सार्थकं कर्तुं शक्यते, इति भगवान् श्रीकृष्णात् शिक्षितुं
मुख्यमंत्री इस्कॉन मंदिर भोपाल में आयोजित श्रीकृष्ण जन्म उत्सव में हुए शामिल


मुख्यमन्त्री भोपालस्य इस्कॉन-मन्दिरे आयोजिते श्रीकृष्णजन्मोत्सवे सम्मिलितः

भोपालम्, ०४ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् कष्टेषु स्थित्वापि जीवनं कथं सार्थकं कर्तुं शक्यते, इति भगवान् श्रीकृष्णात् शिक्षितुं शक्यते। सः सत्ताधीशस्य कंसस्य गृहे एव प्रविश्य तं हत्वा साहसस्य शौर्यस्य च परिचयं दत्तवान्।

मुख्यमन्त्री डॉ. यादवः शुक्रवासरस्य रात्रौ भोपालस्य पटेलनगरे स्थिते इस्कॉन-मन्दिरे आयोजिते श्रीकृष्णजन्मोत्सवे सम्बोधनं कुर्वन् आसीत्। सः अवदत् यत् प्रदेशस्य नगरीयक्षेत्रेषु गीताभवनानि ग्रामीणक्षेत्रेषु च वृन्दावनग्रामाः प्रारभ्यमाणाः सन्ति। राज्यसर्वकारेण गोशालानां सञ्चालनाय आर्थिकसहायता प्रदीयते। मुख्यमन्त्री कार्यक्रमे प्रस्तुतानि भजनानि अपि अशृणोत्।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् गृहे गृहे गोपालस्य परिकल्पनां साकारयन् प्रदेशे गोपालनं प्रोत्साह्यते। प्रदेशे दुग्धोत्पादनवृद्ध्यर्थं प्रयासाः क्रियन्ते। आगामिकाले मध्यप्रदेशः अस्मिन् क्षेत्रे देशे प्रथमस्थानं प्राप्स्यति। मुख्यमन्त्री डॉ. यादवः सर्वेभ्यः श्रद्धालुभ्यः भगवान् श्रीकृष्णस्य जन्माष्टमीपर्वणः शुभकामनाः प्रदत्तवान्।

सः अवदत् यत् इस्कॉन-मन्दिरे आगत्य वृन्दावनस्य इव अनुभूयते। भगवान् श्रीकृष्णेन स्वजीवने मैत्र्याः महत्त्वमपि स्थापितम्। तेन शिक्षायाः महत्त्वमपि प्रतिपादितम्। सः उज्जयिन्यां गुरोः सान्दीपनेः समीपे शिक्षां गृहीतवान्। स्वजीवने एव तेन जगद्गुरोः उपाधिरपि प्राप्ता। मुख्यमन्त्री डॉ. यादवः अवदत् यत् प्रदेशे समाननागरिकसंहितां प्रवर्तयितुं प्रयत्न: कृत: अस्ति। संविधानस्य दृष्ट्या सर्वे नागरिकाः समानाः सन्ति।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् प्रदेशे श्रीकृष्णपाथेयस्य निर्माणं क्रियते। प्रारम्भे संस्थायाः प्रतिनिधिभिः मुख्यमन्त्रिण: डॉ. यादवस्य स्वागतं कृतम्। मुख्यमन्त्री डॉ. यादवः इस्कॉन-मन्दिरं प्राप्य भगवान् श्रीकृष्णस्य प्रतिमायै प्रणामं कृत्वा पूजार्चनां च कृतवान्। सः इस्कॉन-संस्थायाः संस्थापकस्य स्वामिनः प्रभुपादस्य प्रतिमामपि प्रणमितवान्।

मुख्यमन्त्री डॉ. यादवः नूतनस्य इस्कॉन-मन्दिरस्य निर्माणस्य परिकल्पनायाः प्रशंसाम् अकरोत्। सः अवदत् यत् यदा सः उज्जयिनीविकासप्राधिकरणस्य अध्यक्षः आसीत्, तदा मध्यप्रदेशे सर्वप्रथमम् उज्जयिन्यामेव इस्कॉन-मन्दिरस्य प्रारम्भः अभवत्। एषः क्रमः अधुना राज्यराजधानीं भोपालमपि प्राप्तवान्। अत्र निर्मीयमाणस्य नूतनस्य मन्दिरस्य वास्तुकला नागर-शैल्यनुसारं निर्माणस्य च प्रयत्न: प्रशंसनीय: अस्ति। मुख्यमन्त्री डॉ. यादवः नूतनस्य इस्कॉन-मन्दिरस्य निर्माणाय निर्मितस्य परियोजनायाः विषये सूचनाम् अवाप्तवान्। इस्कॉन-संस्थायाः पक्षतः मुख्यमन्त्रिणे डॉ. यादवाय स्मृतिचिह्नं प्रदत्तम्।

Hindusthan Samachar / Divya Ranjan