मध्यप्रदेशे श्रीकृष्णजन्मोत्सवस्य मनोरंजनम्, रात्रौ द्वादशवादने एव गुञ्जिताः जयघोषाः, मन्दिरेषु च समागताः श्रद्धालवः
भोपालम्, ०४ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशे शुक्रवासरस्य रात्रौ भगवय: श्रीकृष्णस्य जन्मोत्सवः उत्साहेन भक्तिभावेन च आचरितः। रात्रौ द्वादशवादने एव सम्पूर्णप्रदेशे ‘नन्दस्य गृहे आनन्दो जातः, जय कन्हैयालाल की’ इति जयघोषाः गुञ्जिताः। भोपालम्, उज्ज
इस्कान मंदिर उज्जैन में श्री कृष्ण जन्मोत्सव


मुख्यमंत्री इस्कॉन मंदिर भोपाल में आयोजित श्रीकृष्ण जन्म उत्सव में हुए शामिल


भोपालम्, ०४ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशे शुक्रवासरस्य रात्रौ भगवय: श्रीकृष्णस्य जन्मोत्सवः उत्साहेन भक्तिभावेन च आचरितः। रात्रौ द्वादशवादने एव सम्पूर्णप्रदेशे ‘नन्दस्य गृहे आनन्दो जातः, जय कन्हैयालाल की’ इति जयघोषाः गुञ्जिताः।

भोपालम्, उज्जयिनी, इन्दौरम् इत्यादिषु सम्पूर्णप्रदेशस्य मन्दिरेषु भगवान् श्रीकृष्णस्य जन्मोत्सवः आचरितः। श्रद्धालुभिः आरार्तिकी कृता, कान्हा दोलिता, प्रसादश्च समर्पितः। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अस्मिन् अवसरे भोपालस्य पटेलनगरे स्थिते इस्कॉन-मन्दिरे आयोजिते श्रीकृष्ण-जन्मोत्सवे सम्मिलितः। सः कार्यक्रमे प्रस्तुतानि भजनानि अपि अशृणोत्।

उज्जयिन्याः राममन्दिरे रात्रौ द्वादशवादने एव भगवत: श्रीकृष्णस्य जन्मोत्सवः आचरितः। सहस्रशः श्रद्धालवः कृष्णस्य जन्मन: हर्षम् आचरितवन्तः। मन्दिरपरिसरे विस्फोटोऽपि कृत:। अपरत्र इस्कॉन-मन्दिरे वर्षायाः अभ्यपि बहुसंख्यकाः श्रद्धालवः समागताः। भजनकीर्तनस्य मध्ये भक्ताः कृष्णभक्तिरसे निमग्नाः आनन्देन नृत्यन्तः दृश्यन्ते स्म।

इन्दौरस्य राजवाडास्थिते गोपालमन्दिरे बाङ्केबिहारीमन्दिरे च दर्शनार्थं भक्तानां जनसमूहः आसीत्। बाङ्केबिहारीमन्दिरे राजकमलबैण्ड्-दलेन भजनानां प्रस्तुति: कृता। बडागणपतिमन्दिरे युवानां दलेन प्रायः त्रिंशत्पादमितोन्नता मटकी भञ्जिता। कार्यक्रमे मन्त्री कैलाशविजयवर्गीयः अपि उपस्थितः आसीत्।

रतलामस्य धानमण्डीचतुष्पथे क्रेनयन्त्रेण दधिहण्डिका बद्धा। महाराष्ट्रस्य ढोल-ताशा-दलस्य प्रस्तुत्या वातावरणे उत्साहः वर्धितः। बडागोपालजीमन्दिरे कान्हा इत्यस्य विशेषशृङ्गारः कृतः तथा भक्ताः जयघोषान् कुर्वन्तः आनन्देन नृत्यन्तः आसन्। खण्डवानगरे चतुर्षु स्थानेषु मटकीभञ्जनकार्यक्रमाः आयोजिताः। भिण्डे मन्दिरेषु सह खण्डामार्गे मटकीभञ्जनस्पर्धा आयोजिता। ओङ्कारेश्वरस्य प्रमुखमन्दिरेषु विशेष-पूजनम्, अभिषेकः, शृङ्गारश्च कृतः। जन्मोत्सवस्य अवसरे मन्दिरेषु आरार्तिकी धार्मिकानुष्ठानानि च सम्पन्नानि।

ग्वालियरे भगवत: श्रीकृष्णस्य जन्मानन्तरमपि गोपालमन्दिरे अभिषेकं कृत्वा भगवत: श्रीकृष्णस्य आरार्तिकी पूजार्चना च कृता। गोपालमन्दिरे दर्शनार्थं श्रद्धालूनां जनसमूहः दृश्यते। दर्शनं कृत्वा प्रत्यागतैः भक्तैः उक्तं यत् भगवत: अतीव मनोहरं दर्शनं प्राप्तम्, मनश्च प्रसन्नम् अभवत्। इन्दौरे राजवाडास्थिते गोपालमन्दिरे भगवत: श्रीकृष्णस्य जन्मानन्तरम् आरार्तिकी कृता। बहुसंख्यकाः श्रद्धालवः आरार्तिक्यां सम्मिलिताः। अस्मिन् समये सम्पूर्णं मन्दिरपरिसरं जयघोषैः गुञ्जितम्।

भगवान् श्रीकृष्णः कष्टेष्वपि जीवनं सार्थकं कर्तुं शिक्षाम् अददात् : मुख्यमन्त्री

अथ भोपालस्य पटेलनगरे स्थिते इस्कॉन-मन्दिरे आयोजिते श्रीकृष्णजन्मोत्सवे सम्मिलितः मुख्यमन्त्री डॉ. मोहनयादवः श्रद्धालून् सम्बोधयन् अवदत् यत् कष्टेषु स्थित्वापि जीवनं कथं सार्थकं कर्तुं शक्यते, इति भगवत: श्रीकृष्णात् शिक्षितुं शक्यते। सः सत्ताधीशं कंसं तस्य गृहे एव प्रविश्य हत्वा साहसस्य शौर्यस्य च परिचयं दत्तवान्।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् प्रदेशस्य नगरीयक्षेत्रेषु गीताभवनानि ग्रामीणक्षेत्रेषु च वृन्दावनग्रामाः प्रारभ्यमाणाः सन्ति। राज्यसर्वकारेण गोशालानां सञ्चालनाय आर्थिकसहायता प्रदीयते।

सः अवदत् यत् गृहे गृहे गोपालस्य परिकल्पनां साकारयन् प्रदेशे गोपालनं प्रोत्साह्यते। प्रदेशे दुग्धोत्पादनवृद्ध्यर्थं प्रयासाः क्रियन्ते। अग्रिमकाले मध्यप्रदेशः अस्मिन् क्षेत्रे देशे प्रथमस्थानं प्राप्स्यति।

मुख्यमन्त्री डॉ. यादवः सर्वेभ्यः श्रद्धालुभ्यः भगवान् श्रीकृष्णस्य जन्माष्टमीपर्वणः शुभकामनाः प्रदत्तवान्। सः अवदत् यत् इस्कॉन-मन्दिरम् आगत्य वृन्दावनस्य इव अनुभूयते। भगवता श्रीकृष्णेन स्वजीवने मैत्र्याः महत्त्वमपि स्थापितम्। तेन शिक्षायाः महत्त्वमपि प्रतिपादितम्। सः उज्जयिन्यां गुरोः सान्दीपनेः समीपे शिक्षां गृहीतवान्। स्वजीवने एव तेन जगद्गुरोः उपाधिरपि प्राप्ता। मुख्यमन्त्री अवदत् यत् प्रदेशे समाननागरिकसंहितां प्रवर्तयितुं पहलः कृता अस्ति। संविधानस्य दृष्ट्या सर्वे नागरिकाः समानाः सन्ति।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् प्रदेशे श्रीकृष्णपाथेयस्य निर्माणं क्रियते। प्रारम्भे संस्थायाः प्रतिनिधिभिः मुख्यमन्त्रिणः डॉ. यादवस्य स्वागतं कृतम्। मुख्यमन्त्री डॉ. यादवः इस्कॉन-मन्दिरं प्राप्य भगवत: श्रीकृष्णस्य प्रतिमायै प्रणामं कृत्वा पूजार्चनां च कृतवान्। सः इस्कॉन-संस्थायाः संस्थापकस्य स्वामिनः प्रभुपादस्य प्रतिमामपि प्रणमितवान्।

मुख्यमन्त्री डॉ. यादवः नूतनस्य इस्कॉन-मन्दिरस्य निर्माणस्य परिकल्पनायाः प्रशंसाम् अकरोत्। सः अवदत् यत् यदा सः उज्जयिनीविकासप्राधिकरणस्य अध्यक्षः आसीत्, तदा मध्यप्रदेशे सर्वप्रथमम् उज्जयिन्यामेव इस्कॉन-मन्दिरस्य प्रारम्भः अभवत्। एषः क्रमः अधुना राज्यराजधानीं भोपालमपि प्राप्तवान्। अत्र निर्मीयमाणस्य नूतनस्य मन्दिरस्य वास्तुकला नागर-शैल्यनुसारं निर्माणस्य च पहलः प्रशंसनीयः अस्ति। मुख्यमन्त्री डॉ. यादवः नूतनस्य इस्कॉन-मन्दिरस्य निर्माणाय निर्मितस्य परियोजनायाः विषये सूचनाम् अवाप्तवान्। इस्कॉन-संस्थायाः पक्षतः मुख्यमन्त्रिणे डॉ. यादवाय स्मृतिचिह्नं प्रदत्तम्।

Hindusthan Samachar / Divya Ranjan