भगवान् श्रीकृष्णः साहसकर्तव्यमैत्रीगुणैः परिपूर्णं जीवनम् अयापयत् - मुख्यमन्त्री डॉ. यादवः
उज्जयिन्याः मटकीभञ्जनस्पर्धायां मुख्यमन्त्री डॉ. यादवः आभासीयमाध्यमेन सम्बद्धः भोपालम्, ०४ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् श्रीकृष्णजन्माष्टमीपर्वणः मनुष्यः विविधाः शिक्षाः प्राप्नोति। भगवान् श्रीकृष्णस्य
मुख्यमंत्री डॉ. यादव उज्जैन की मटकी फोड़ स्पर्धा से जुड़े वर्चुअली


उज्जयिन्याः मटकीभञ्जनस्पर्धायां मुख्यमन्त्री डॉ. यादवः आभासीयमाध्यमेन सम्बद्धः

भोपालम्, ०४ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् श्रीकृष्णजन्माष्टमीपर्वणः मनुष्यः विविधाः शिक्षाः प्राप्नोति। भगवान् श्रीकृष्णस्य जीवनं साहसस्य, रणनीति-निर्माणस्य, कर्तव्यपरायणतायाः, मैत्री-महत्त्वस्य च बोधं कारयति।

मुख्यमन्त्री डॉ. यादवः शुक्रवासरे उज्जयिन्याः शहीदपार्कस्थिते कृष्णग्रुप-संस्थया कृष्णवेल्फेयरसोसायटी-संस्थया च आयोजितायां मटकीभञ्जनस्पर्धायां भजनसन्ध्यायां च आभासीयमाध्यमेन सम्बोधनं कृतवान्। मुख्यमन्त्री डॉ. यादवः सर्वेभ्यः जन्माष्टमीपर्वणः शुभकामनाः प्रदत्तवान्।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् मटकीभञ्जनस्पर्धायां कार्यक्रमे च जीवनदर्शनं निहितम् अस्ति। अस्माकं जीवनं मटकीवत् अथवा घटवत् अस्ति, यस्मिन् पुण्यस्य नवनीतं सदा पूरितं भवेत्। वयं सर्वे मिलित्वा मटकीति भंजनं कृत्वा नवनीतं प्राप्नुमः। एकतया मटकी-भञ्जनस्य आनन्दः विशिष्टः भवति। मटकीभञ्जनस्पर्धया एषा शिक्षा प्राप्यते यत् मैत्री सामूहिकता च कियती आवश्यकाः स्तः। मटकीभञ्जनस्य कार्यं सङ्गठनस्य शक्तिमपि प्रदर्शयति।

मुख्यमन्त्री डॉ. यादवः संस्थया विगत-सप्तदशवर्षेभ्यः निरन्तरं आयोज्यमानस्य अस्य कार्यक्रमस्य सर्वेषां प्रतिभागिनां च प्रशंसाम् अकरोत्। कार्यक्रमे नगर-निगमस्य सभापतिः कलावतीयादवः अन्ये च नैके जनप्रतिनिधयः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan