केन्द्रीयमन्त्री मनोहरलालः अद्य मध्यप्रदेशप्रवासे, विस्तारितस्य इन्दौरमेट्रोसेवायाः करिष्यति शुभारम्भम्
इन्दौरम्, ०५ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयः आवासनस्य नगरीयकार्यस्य च मन्त्री मनोहरलालः शनिवासरे मध्यप्रदेशस्य एकदिवसीयप्रवासे इन्दौरम् आगमिष्यति। सः अत्र विस्तारितायाः मेट्रोसेवायाः शुभारम्भं करिष्यति। अस्मिन् अवसरे तेन सह मुख्यमन्त्री डॉ. मोहन
केंद्रीय मंत्री मनोहर लाल (फाइल फोटो)


इन्दौरम्, ०५ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयः आवासनस्य नगरीयकार्यस्य च मन्त्री मनोहरलालः शनिवासरे मध्यप्रदेशस्य एकदिवसीयप्रवासे इन्दौरम् आगमिष्यति। सः अत्र विस्तारितायाः मेट्रोसेवायाः शुभारम्भं करिष्यति। अस्मिन् अवसरे तेन सह मुख्यमन्त्री डॉ. मोहनयादवः अपि उपस्थितः भविष्यति।

जनसम्पर्काधिकारिणा पुष्पेन्द्रवास्कलेन उक्तं यत् मध्यप्रदेशे आधुनिकस्य विश्वस्तरीयस्य च सार्वजनिकपरिवहनस्य सुदृढीकरणस्य दिशि एकः अन्यः महत्त्वपूर्णः उपलब्धिपूर्णः चरणः योजितुं गच्छति। इन्दौरमेट्रोसेवा मालवीयनगर-चतुष्पथपर्यन्तं विस्तार्यते। विजय-नगरस्थे ब्रिलियण्ट्-कन्वेन्शन्-सेन्टर् इत्यत्र सायं चतुर्वादने आयोजिते समारोहे केन्द्रीयमन्त्री मनोहरलालः मुख्यमन्त्री डॉ. यादवश्च विस्तारितमेट्रोसेवायाः शुभारम्भं करिष्यतः।

जनसम्पर्काधिकारिणः अनुसारं सेप्टेम्बरमासस्य षष्ठीतः एषा सेवा सामान्ययात्रिकेभ्यः उपलब्धा भविष्यति। अनेन यात्रिकेभ्यः गान्धीनगरतः मालवीयनगरचतुष्पथपर्यन्तं निर्बाधमेट्रोयात्रायाः सुविधा प्राप्स्यते। मेट्रोयानस्य प्रथमं यानं प्रतिदिनं प्रातः नववादने उभयतः प्रस्थास्यति, अन्तिमं यानं तु सायं सप्तवादने प्रस्थास्यति। यात्रिकाणां सुविधायै प्रत्येकं पञ्चदशनिमेषाणाम् अन्तराले यानं उपलब्धं भविष्यति तथा प्रतिदिनम् अशीत्यधिकाः यात्राप्रक्रमाः सञ्चालिताः भविष्यन्ति।

उल्लेखनीयं यत् सम्प्रति इन्दौरमेट्रोसेवा गान्धीनगरतः सुपर-कॉरिडोर-३ पर्यन्तं प्रायः षड् किलोमीटर-मिते मार्गे सञ्चाल्यते। सेवाविस्तारानन्तरम् अधुना मेट्रोसेवा गान्धीनगरतः मालवीयनगर-चतुष्पथपर्यन्तं प्रायः सप्तदशकिलोमीटर्-मिते दीर्घे मार्गे सञ्चालिता भविष्यति। विस्तारिते मार्गे यात्रिकाणां आवागमनाय षोडश स्थानकानि भविष्यन्ति, येन नगरस्य प्रमुखव्यावसायिकेषु आवासीयक्षेत्रेषु च परस्परं यात्रा अधिकशीघ्रा, सुरक्षिताऽनुकूलतरा च भविष्यति।

इन्दौरमेट्रोस्य आधुनिकानि पूर्णतः वातानुकूलितानि यानानि यात्रिकेभ्यः सुखदं यात्रानुभवं प्रदास्यन्ति। सर्वेषु स्थानकेषु अङ्कीययात्रिसूचनाप्रणाली, सीसीटीवी-आधारितसुरक्षाव्यवस्था, सोपानचलितयन्त्राणि, उद्वाहनानि दिव्याङ्गजनानुकूलाः सुविधाश्च उपलब्धाः सन्ति। एषा परियोजना पर्यावरणा-नुकूलस्य सुरक्षितस्य समयबद्धस्य च सार्वजनिकपरिवहन-व्यवस्थायाः प्रोत्साहनस्य दिशि महत्त्वपूर्णं चरणम् अस्ति।

यात्रिकाणां सुविधायै इन्दौरमेट्रोसेवायां स्वचालितकिरायासङ्ग्रहणप्रणाली पूर्वमेव सञ्चालिता अस्ति। यात्रिकाः एमपीएमआरसीएल-मोबाइल-अनुप्रयोगस्य माध्यमेन अङ्कीयप्राप्तिपत्रं प्राप्तुं शक्नुवन्ति तथा यूपीआई, क्यूआर-कोड्, ई-वॉलेट्-मोबाइल-अनुप्रयोगस्य च माध्यमेन नगदरहितं प्रदानं कृत्वा सहजां सुरक्षितां च यात्रासुविधां प्राप्तुं शक्नुवन्ति।

यात्रिकाणां प्रोत्साहनाय एमपीएम-आरसीएल-पक्षतः आकर्षकं प्रचारात्मकं न्यूनतानीतिः प्रवर्तिता अस्ति। अस्याः अन्तर्गतं पुनरागमनयात्राप्राप्तिपत्रे पञ्चप्रतिशतं तथा समूहप्राप्तिपत्रे दशप्रतिशतं छूटः प्रदीयते। अपरतः मोबाइल-अनुप्रयोगस्य माध्यमेन ई-वॉलेट् पुनप्पूरणं कर्तुं रिचार्जराश्यनुसारं अष्टप्रतिशततः पञ्चदशप्रतिशतपर्यन्तं बोनसः प्रदास्यते। द्विशततः चतुःशताधिक-नवत्यधिकरूप्यकपर्यन्तं रिचार्जे अष्टप्रतिशतं, पञ्चशततः नवशताधिक-नवत्यधिकरूप्यकपर्यन्तं दशप्रतिशतं, सहस्रतः चतुर्दशशताधिक-नवत्यधिक-रूप्यकपर्यन्तं द्वादशप्रतिशतं तथा पञ्चदशशतात् द्विसहस्ररूप्यकपर्यन्तं रिचार्ज इत्यस्मिन् पञ्चदशप्रतिशतं बोनस प्रदास्यते।

विस्तारितसेवायाः सञ्चालनस्य आरम्भेन इन्दौरवासिभ्यः आधुनिकस्य, सुरक्षितस्य, पर्यावरणानुकूलस्य विश्वस्तरीयस्य च मेट्रोपरिवहनस्य लाभः अधिकव्यापकतया प्राप्स्यते।

Hindusthan Samachar / Divya Ranjan