Enter your Email Address to subscribe to our newsletters

दीर्घकालतः दर्शकानां मध्ये चर्चितायाः ‘मिर्जापुर-द-मूवी’ इति चलचित्रस्य अन्ततः चित्रपटगृहेषु प्रदर्शनं जातम् तथा च चलचित्रेण प्रथमस्मिन्नेव दिवसे सशक्तः आरम्भः कृतः। एक्सेल-एण्टरटेन्मेण्ट् तथा अमेजन-एमजीएम-स्टूडियोज् इत्येतयोः निर्मिते अस्मिन् चलचित्रे हिन्दीभाषायां सप्तविंशतिः दशमलव अष्टपञ्च कोटिरूप्यकाणां, तेलुगुभाषायां च षड्विंशतिः लक्षरूप्यकाणां धनसंग्रहः कृतः। एवं चलचित्रस्य प्रथमदिवसस्य कुलधनसंग्रहः अष्टाविंशतिः दशमलव एकादश कोटिरूप्यकाणि अभवत्। अली-फजलः, दिव्येन्दुः तथा पङ्कज-त्रिपाठी इत्येतेषां प्रमुखाभिनयं युक्तमिदं चलचित्रं लोकप्रियस्य ‘मिर्जापुर’ इति जाल-धारावाहिकस्य संसारं प्रथमवारं बृहच्चित्रपटे आनयति।
चलचित्रं दर्शकेभ्यः सकारात्मक-प्रतिक्रियायाः तथा उत्तम-मौखिक-प्रचारस्य लाभं प्राप्नोति इति दृश्यते। अनेकेषु स्थलेषु पूर्णतया पूरितानि प्रदर्शनानि तथा दर्शकानाम् उत्साहः अस्य उद्घाटनं अधिकं सुदृढं कृतवान्। लघुपर्दात् बृहच्चित्रपटं प्रति प्राप्तस्य ‘मिर्जापुर’ इति संसारस्य प्रथमदिवसस्य अयं धनसंग्रहः अस्य श्रृङ्खलायाः लोकप्रियतां प्रदर्शयति। उत्सव-सप्ताहान्तस्य लाभोऽपि चलचित्राय प्राप्तुं शक्यते, अतः आगामीषु दिवसेषु अस्य धनसंग्रहे अधिका वृद्धिः भवितुं शक्नोति।
चलचित्रे अली-फजलः, दिव्येन्दुः तथा पङ्कज-त्रिपाठी इत्येतेभ्यः अतिरिक्तम् अभिषेक-बनर्जी, रसिका-दुग्गल, मोहित-मलिक, शीबा-चड्ढा, राजेश-तैलङ्ग, प्रमोद-पाठक, श्रिया-पिलगांवकर, हर्षिता-शेखर-गौर, श्वेता-त्रिपाठी तथा सोनल-चौहान इत्यादयः कलाकाराः अपि दृश्यन्ते। गुरमीत-सिंहस्य निर्देशनं प्राप्तस्य अस्य चलचित्रस्य कथा तथा पटकथा पुनीत-कृष्णेन लिखिता। रितेश-सिधवानी तथा फरहान-अख्तर इत्येतौ अस्य निर्मातारौ स्तः, कासिम-जगमगिया तथा विशाल-रामचन्दानी च सहनिर्मातारौ स्तः। ‘मिर्जापुर-द-मूवी’ इति चलचित्रं चतुर्थे सितम्बर-दिने हिन्दी-तेलुगुभाषयोः चित्रपटगृहेषु प्रदर्शितम् अस्ति।
Hindusthan Samachar / Dheeraj Maithani