नेपाले लुप्तानां कर्नाटकवासिनां परिचयाय बेंगलुरुचिकित्सालयः निर्मितः डीएनए प्रोफाइलिंगप्रक्रियायाः नोडलकेंद्रम्
-लुप्तजनानां प्रथमश्रेण्याः परिजनेभ्यःप्रषयिष्यन्ते डीएनएप्रदत्तानि, शवान् स्वदेशम् आनायितुं लप्स्यते साहाय्यम् बेंगलुरुः, 05 सितंबरमासः (हि.स.)। नेपालदेशे लुप्तानां कर्नाटकस्य जनानां परिचयं कर्तुं आवश्यकतायां च मृतकानां पार्थिवशरीराणां स्वदेशम्
जीबीए कमिश्नर द्वारा जारी प्रेस विज्ञप्ति


-लुप्तजनानां प्रथमश्रेण्याः परिजनेभ्यःप्रषयिष्यन्ते डीएनएप्रदत्तानि, शवान् स्वदेशम् आनायितुं लप्स्यते साहाय्यम्

बेंगलुरुः, 05 सितंबरमासः (हि.स.)। नेपालदेशे लुप्तानां कर्नाटकस्य जनानां परिचयं कर्तुं आवश्यकतायां च मृतकानां पार्थिवशरीराणां स्वदेशम् आनायितुं प्रक्रियायां सुविधां कर्तुं बेङ्गलूरु-नगरे स्थितं बॉरिङ्-लेडी-कर्जन्-चिकित्सालयं डीएनए-प्रोफाइलिङ्गस्य नोडल-केन्द्रं कृतम् अस्ति। ग्रेटर्-बेङ्गलूरु-प्राधिकरणस्य मुख्यायुक्तेन शनिवासरे निर्गते विज्ञप्तौ एषा सूचना प्रदत्ता।

विज्ञप्त्यनुसारं नेपालदेशे लुप्तानां जनानां परिचये साहाय्यं कर्तुं तेषां प्रथम-श्रेणी-परिजनानां डीएनए-नमूनानि संग्रहीष्यन्ते। लापतस्य व्यक्तेः माता, पिता, पुत्रः पुत्री वा डीएनए-प्रदत्तानि दातुं शक्नुवन्ति।

डीएनए-प्रदत्तानि दातुं आगच्छद्भिः परिजनैः अद्यतनं पासपोर्ट्-आकारस्य छायाचित्रम्, आधारपत्रम् अथवा अन्यत् किमपि सर्वकारीय-परिचयपत्रं तथा लुप्तजनेन सह सम्बन्धं प्रमाणीकुर्वन्तः आवश्यकानि प्रपत्राणि समम् आनेतव्यानि।

विधि-विज्ञान-चिकित्सा-विभागस्य प्राध्यापकः प्रमुखश्च डॉ. नागेश-कुप्पस्तः नोडल-अधिकारी नियुक्तः अस्ति। तेन सह ९७४२७०७५०० इति दूरभाष-सङ्ख्यायां सम्पर्कः कर्तुं शक्यते। निवासी-चिकित्सा-अधिकारी डॉ. वादिराज-बी.-पोक्कन् इत्यनेन सह ९४४८४०८६४० इति दूरभाष-सङ्ख्यायां सम्पर्कः कर्तुं शक्यते।

ग्रेटर्-बेङ्गलूरु-प्राधिकरणेन अधिकायाः सूचनायै, मार्गदर्शनाय आवश्यक-सहायतायै च हेल्पलाइन-सङ्ख्यायां १५३३ इत्यत्र सम्पर्कं कर्तुं जनानाम् आह्वानं कृतम् अस्ति।-----------

Hindusthan Samachar / Dheeraj Maithani