बालानां व्यवहारे दैनंदिनगतिविधिषु अपि दृष्टिं स्थापयेयुः शिक्षकाः : प्रधानमंत्री मोदी
नव दिल्ली, 05 सितंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शिक्षकान् विद्यार्थिनां अध्ययनस्य शैक्षणिक-उपलब्धीनां च साथमेव तेषां व्यवहारं, दिनचर्यां मानसिक-स्थितिं च प्रति अपि ध्यानं दातुम् आहूतवान्। सः बालकेषु वर्धमानायाः मादक-द्रव्य-सेवनस्य प्रवृ
प्रधानमंत्री नरेन्द्र मोदी शिक्षकों से मुलाकात करते हुए।


नव दिल्ली, 05 सितंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शिक्षकान् विद्यार्थिनां अध्ययनस्य शैक्षणिक-उपलब्धीनां च साथमेव तेषां व्यवहारं, दिनचर्यां मानसिक-स्थितिं च प्रति अपि ध्यानं दातुम् आहूतवान्। सः बालकेषु वर्धमानायाः मादक-द्रव्य-सेवनस्य प्रवृत्तेः अत्यधिकस्य च चलदूरभाष-पटल-प्रयोगस्य विषये शिक्षकान् सतर्कान् भवितुं आहूतवान्।

प्रधानमन्त्री शुक्रवासरे सायंकाले लोककल्याणमार्गस्थिते स्वकीयावासे राष्ट्रिय-शिक्षक-पुरस्कारेण सम्मानितैः शिक्षकैः शिक्षाविद्भिश्च सह संवादं कुर्वन् आसीत्। शिक्षक-दिवसस्य एकदिनपूर्वम् आयोजिते अस्मिन् कार्यक्रमे अस्मिन् वर्षे पुरस्कारेण सम्मानिताः ८२ विजेतारः सहभागितां कृतवन्तः। एतेषु ४८ विद्यालयीय-शिक्षकाः, २१ उच्च-शिक्षण-संस्थानानां तथा पॉलिटेक्निक्-संस्थानानां शिक्षकाः, १३ च कौशल-प्रशिक्षकाः सम्मिलिताः आसन्।

प्रधानमन्त्री उक्तवान् यत् शिक्षकस्य दायित्वं केवलं पाठ्यक्रमस्य पूर्णतां यावत् सीमितं न भवति। तेन विद्यार्थिनां व्यवहारे जायमानान् परिवर्तनान् ज्ञातुं शक्नोति तथा आवश्यकता भवति चेत् तेषां व्यक्तिगतं मार्गदर्शनं करणीयम्।

मोदी-वर्यः उक्तवान् यत् पारम्परिकस्य संयुक्त-कुटुम्ब-व्यवस्थायाः दुर्बलीकरणात् बालकानां जीवने शिक्षकाणां भूमिका पूर्वापेक्षया अधिकं महत्त्वपूर्णा जाता अस्ति। अतः शिक्षकैः बालकैः सह संवादः वर्धनीयः तथा तेषां समस्यायाः पृष्ठतः विद्यमानानां कारणानां बोधनं करणीयम्।

प्रधानमन्त्री बालकेषु वर्धमानायाः मादक-द्रव्य-सेवनस्य प्रवृत्तेः विशेषरूपेण उल्लेखं कृतवान्। सः उक्तवान् यत् शिक्षकैः विद्यार्थिनां व्यवहारे आकस्मिकरूपेण जायमानानां परिवर्तनानां निरीक्षणं करणीयम्। यदि कस्मिंश्चित् बालके मादक-द्रव्य-सेवनस्य प्रवृत्तेः संकेताः दृश्यन्ते तर्हि तं सम्यग्दिशि नेतुं तथा तस्याः समस्यायाः बहिः आनेतुं साहाय्यं करणीयम्।

सः बालकैः अत्यधिकस्य चलदूरभाष-पटलस्य प्रयोगस्य विषये अपि सावधानतायाः आवश्यकता प्रतिपादितवान्।

मोदी-वर्यः बालकानां स्वाभाविक-जिज्ञासां निवारयितुं न अपितु तस्याः सम्यग्दिशि मार्गदर्शनं कर्तुं बलं दत्तवान्। सः उक्तवान् यत् बालकानां सरलतां तथा शिक्षणे उत्सुकतां संरक्षितुं आवश्यकम् अस्ति।

प्रधानमन्त्रिणा विद्यार्थिषु श्रमस्य गौरवस्य भावनायाः विकासः अपि शिक्षकाणां महत्त्वपूर्णं दायित्वम् उक्तम्। सः उक्तवान् यत् बालकेभ्यः परिश्रमस्य तथा सर्वेषां कार्याणां सम्मानस्य महत्त्वं बोधनीयम्।

संवादस्य समये राष्ट्रिय-शिक्षक-पुरस्कारस्य विजेतारः प्रधानमन्त्रिणा सह स्वकीयान् शिक्षण-अनुभवान् साझीकृतवन्तः। शिक्षकाः कक्षायां शिक्षणं अधिकं प्रभावपूर्णं, रोचकं विद्यार्थिभ्यः उपयोगी च कर्तुं स्वीकृतानां विविध-नवाचाराणां प्रयोगाणां च विषये प्रधानमन्त्रिणे सूचनां दत्तवन्तः।

प्रधानमन्त्री शिक्षकाणां एतेषां प्रयासानां प्रशंसां कृत्वा उक्तवान् यत् शिक्षा केवलं पुस्तकानि परीक्षां च यावत् सीमिता नास्ति, अपितु बालकानां समग्र-व्यक्तित्वस्य भविष्यस्य च निर्माणे शिक्षकाणां महत्त्वपूर्णा भूमिका अस्ति।

------------------

Hindusthan Samachar / Dheeraj Maithani